पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

तद्विपर्ययास्तन्निरूपणाष्टौ भवन्तीति ॥ ४९ ॥

 तुष्टिर्नवधेत्युक्तम् , ताः परिगणयति---


 आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
 बाह्या विषयोपरमात् पञ्च च, नव तुष्टयो ऽभिमताः ॥५०॥




ये दोषमपश्यतः प्रतिपत्तिरसुनेत्रानाम्नी सप्तमी । भोगशक्तिवसुना- रिकानाम्नी अष्टमी । हिंसादोषमपश्यतो भोगारम्भे प्रवृत्तिनुत्त- माम्भसिकानाम्नी नवमीति तुष्टेर्विपर्ययान्नव तुष्टयो व्याख्याताः ।

 एवं सिद्धिाविपर्ययादसिद्धयोऽष्टौ भवन्ति । वक्ष्यमाणाध्ययनं विना यत्किञ्चित्तत्वाविर्भावः प्रतार इति प्रथमा । एवमन्यार्थशद्धे- श्रवणाज्जायमानं ज्ञानमशब्दो 'यथाशास्त्राध्ययनानुत्पन्नत्वाद- सुतारो द्वितीया । आगमाविरोध्यूहनं विना जायमानं ज्ञानमतारता- मिति तृतीया । अध्ययनश्रवणमननवतोऽप्यसुहृद्वाक्यपदेशाज्जाय- मानं विपरीतं ज्ञानमरम्यके चतुर्थी । एवं दानशुश्रुषादिकं वि- नाऽतुष्टगुरोरुपदेशदुत्पन्नं वासनाद्यनुच्छेदकं तदसदामुदितं पञ्च- मी । कस्यचिदाध्यात्मिकेन शारीरकमानसादिदुःखानुभूत- स्यापि संसारेऽनुंद्वगादजिज्ञासा ज्ञानमप्रमोदं षष्ठी । एवमाधिभौ- तिकदस्युशत्रुसरीसृपादिनाऽभिभूतस्य पुरुषापसदस्य संसारेऽनु- द्वैगादजिज्ञासेत्यज्ञानममुदितनाम्नी सप्तमी । यक्षरक्षःपिशाचग्रहा- द्यैराभभूतस्यापि संसारानलतप्तस्यापि कापिन्यासक्तस्य संसारे ऽनुद्वेगादजिज्ञासेत्यज्ञानमप्रमोदमाननाम्नी अष्टमीत्यष्टावसिद्धयः उक्तनवतुष्टिविपर्ययाः सप्तदश बुद्धिवधा एकादशेन्द्रियवधा इत्ये- वमष्टाविंशतिधाऽशक्तिरिति ॥ ४९ ॥

 उपोद्धातसंगत्याऽऽर्यामवतारयति । तुष्टिर्नवधेयुक्तमि- ति । श्रवणमनननिदिध्यासनवतो वक्ष्यमाणतुष्ट्यसम्भवादाह । प्रकृतिव्यतिरिक्त इति । प्रतिपद्य । तावन्मात्रं ज्ञात्वा । श्रवणम-