या तु--"प्राकृत्यपि विवेकख्यातिने सो प्रकृतिमा-
त्राद्भवति, मा भूत्सर्वस्य सर्वदा, तन्माचस्य सर्वान् प्र-
त्यावशेषात्, प्रव्रज्यायास्तु सा भवति तस्मात् प्रव्रज्या-
मुपाददीथाः,कृतन्ते ध्यानाभ्यासेनायुष्मन्"-इति उप-
देशे या तुष्टिः सोपादानाख्या 'सलिलम्' उच्यते ॥
या तु,-"प्रव्रज्या ऽपि न सद्यो निर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते विधास्थति, अलमुत्त- प्तया तव"-इति उपदेशे या तुष्टिः सा कालाख्या ‘ओघ' उच्यते ॥
या तु-'न प्रकृतेर्न कालान्नाप्युपादानाद्विवेकख्या- तिः अपि तु भाग्यदेव । अत एव मदालसापत्यान्यति बालानि मातुरुपदेशादेव विवेकख्यातिमन्ति मुक्तानि बभूवुः, तस्माद्भाग्यमेव हेतुर्नान्यत्' इति उपदेशे या तुष्टिः सा भाग्याख्या "वृष्टिः" उच्यते ॥
बाह्या दशयति-"बाह्याः" तुष्टयः विषयोपरमा- तु, “पञ्च" । याः खल्वनात्मनः प्रकृतिमहदहङ्कारादीना- त्मेत्यभिमन्यमानस्य वैराग्ये सति तुष्टयस्ता बाह्याः, आत्मज्ञानाभावे सत्यनात्मानमधिकृत्य प्रवृत्तेरिति । ताश्च वैराग्ये सति तुष्टय इति वैराग्यहेतुपञ्चत्वाद्वैरा-
"भाग्यं फलति सर्वत्र न विद्या न च पौरुष" मित्यादिस्मृतिमा- श्रित्य । चतुर्थीमाह । या तु न कालादिति । अत्रेतिहासं प्रमा- णयति । अत एवेति । ।
आध्यात्मिक्य उक्त्वा वाह्या विषयोपरमादित्युक्तं व्याकरो- ति । वैराग्ये सतीति । अर्जनमयथार्थानुष्ठानेनापि योग्यस्य वि- षयस्य संपादनम् । हिंसा मरणानुकूळव्यापारः। तेषु पंचसु कुत्र