पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
गौणमुख्यसिद्ध्यष्टक निरूपणम् ।


 तत्कार्यम्-शब्दः; "शब्दः" इति पदम् शब्दजनित- मर्थज्ञानमुपलक्षयति, कार्ये कारणोपचारात्, । सा द्वि-- तीया सिद्धिः सुतारमुच्यते । पाठार्थाभ्यान्तदिदन्द्विधा श्रवणम् ।।

 “ऊहः" तर्कः, अगमाविरोधिन्यायेनागमार्थपरीक्ष- णम् । परीक्षणञ्च संशयपूर्वपक्षनिराकरणेनोत्तरपक्षव्यव- स्थापनम् । तदिदम्मननमाचक्षत आगमिनः । सा तृती- या सिडिस्तारतरसुध्यते

 "सुहृत्प्राप्तिः" न्यायेन स्वयम्परीक्षितमप्यर्थं न श्र- द्दधते, न यावद् गुरुशिष्यसब्रह्मचारिभिः सह संवाद्य- ते । अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवादकानां प्राप्तिः सुहृत्प्राप्तिः सा सिद्धिश्चतुर्थी "रम्यक" उच्यते ॥

 "दानं" च शुद्धिविवेकज्ञानस्य, ‘दैप् शोधने' ( धा- तुपाठः-९४९ ) इत्यस्माद्धातोर्दानपदव्युत्पत्तेः । यथाह भगवान् पतञ्चालिः--‘विवेकख्यातिरविप्लवो दुः-


 स्वाध्यायोऽध्येतव्य इति श्रुतेः । आचार्याधीनो बेदमध्यैष्ठे ति स्मृतेश्च क्रियाकारकभावापन्नपदसमुदायरूपपरशब्दपदस्य का- र्यपरत्वमाह । शब्द इतीति ।।

 तृतीयामाह । ऊह इति । चतुर्थीमाह । सुहृदिति । ज्ञा- नपदस्य शुद्धिपरत्वे हेतुमाह । दैर् इति । सूत्रं शुद्धिपदाभावा- कथमुक्तार्थसंमतमत आह । विप्लव इति । प्रवाहो नाम विजातीयप्रत्ययान्तरास्पृष्टत्वे सति सजातीयप्रत्ययसंततिस्तस्मि- न्नवस्थानमित्यर्थः । मन्त्रतपःसमाधिभिरणिमादिसिद्धिर्वि- पर्ययहानं विनाऽपि भवत्यतः संसारापारिपान्थित्वात्सा सिध्या- भास एवेति न गृहीता । तथा चोक्तं योगसूत्रेण “ते समाधा- वुपसर्गा व्युत्थाने सिद्ध" इति । आदरपदेन तपोब्रह्मचर्यादि-