लक्षयति, “भावैः” इति च प्रत्ययसर्गम् । एतदुक्तम्भ- वति–तन्मात्रसर्गस्य पुरुषार्थसाधनत्वं स्वरूपश्च न प्रत्ययसर्गाद्विना भवति, एवं प्रत्ययसगस्य स्वरूपं पुरु- षार्थसाधनत्वञ्च न तन्मात्रसर्गादृते , इत्युभयथा सर्गप्रवृ- त्तिः । भोगः पुरुषार्थो ने भोग्यान् शब्दादीन् भोगाय- तनं शरीरद्वयञ्चान्तरेण सम्भवतीत्युपपन्नस्तन्मात्रसर्गः। एवं स एव भोग भोगसाधनानीन्द्रियाण्यन्तःकरणा- नि चान्तरेण न सम्भवति । न च तानि धर्मादान भा- वान् विना सम्भवन्ति । न चापवर्गहेतुर्विवेकख्यातिरु भयसर्गं विना इत्युपपन्न उभयविधः सर्ग: ॥
अनादित्वाञ्च बीजाङ्करवन्नान्योन्याश्रयदोषमावहति कल्पादावपि प्राचीनकल्पोत्पन्नभावलिङ्गसंस्कारवशद्भा-
एतेन पंच महाभूतान्यपि संगृहीतानि भावपदस्य भूयते प्रा- प्यतेऽर्थादिंद्रियेणेति व्युत्पत्या विषयपरत्वादाह । भावैरिति । चेति । एतेन शब्दादयोऽपि संगृहीना इति ।
परस्परं विना स्वरूपं पुरुषार्थसाधनत्वं च न सम्भवतीत्य- भिप्रायेण समाधत्ते । एतदुक्तं भवतीति । तत्रोपपत्तिमाह । तन्मात्रसर्गस्येति । विना न भवति । कुतः ? घटत्वादिवज्जडत्वा- दित्यर्थः । प्रत्ययसर्गस्यापेक्षामाह । एवमिति । धमादिप्रत्यय- सर्गस्य वैयर्थ्यं निराकरोति । न च तानीति । परमपुरुषार्थे मोक्षेऽपि उभयसर्गापेक्षत्याह । न चापवर्गेति । प्रत्ययसर्गे सति तन्मात्रसर्गस्तस्मिंन्सति प्रत्ययसर्ग इवेन्योन्याश्रय इत्याशंक्या- इ । अनादित्वाच्चेति । न चानादित्वे मानाभावः । “न रूपम- स्येह तथोपलभ्यते नान्तो न चादिर्न च संपतिष्ठेत्यादेर्मानत्वात् ।
ननु भवतु तथेदानीं सर्गादौ भवत्येवान्योन्याश्रयतेत्यत आह । कल्पादाविति । संस्कारस्तत्तत्कायाणां सूक्ष्मावस्था ।