पश्वादिस्थावरान्तः, सोऽयम्मोहमयत्वात्तमोबहुलः। भू-
लोकस्तु सप्तद्वीपसमुद्रसन्निवेशॊ "मध्ये रजोविशालो"
धर्माधर्मानुष्ठानपरत्वाद् दुःखबहुलत्वाच्च । तामिमां लो-
कसंस्थितिं संक्षिपति “ब्रह्मादिस्तम्बपर्यन्तः', स्तम्बग्र-
हणेन वृक्षादयः सङ्गृहीताः ॥ ५४॥
तदेवं सर्ग दर्शयित्वा तस्यापवर्गसाधनवैराग्योप- योगिनीं दुःखहेतुतामाह-
तत्र जरामरणकृतं दुःखम्प्राप्नोति चेतनः पुरुषः ।
लिङ्गस्याऽऽविनिवृत्तेस्तस्माद् दुःखं स्वभावेन ॥ ५५ ॥
"तत्र" इति । 'तत्र' शरीरादौ । यद्यपि विविधा विचित्रानन्दभोगभागिनः प्राणभृद्देहाः, तथा ऽपि स- र्वैषां जरामरणकृतं दुःखमविशिष्ठम् । सर्वस्य खलु कृमे- रपि मरणत्रासो-'मा न भूवम् ‘भूयासम्' इत्येवमा- त्मको ऽस्ति । दुःखं च भयहेतुरिति दुःखम्मरणम् ॥
स्यादेतत्-दुःखादयः प्राकृता बुद्धिगुणाः, तत्कथमेते
दित्यर्थः । दैहिकं सर्गमुक्त्वा लोकसंस्थितिमाह । तामिमामिति ।
स्तंबः । सूक्ष्मवीरुधादिः ॥ ५४॥
उपोद्धातसंगत्याऽऽर्यामवतारयति । तदेवमिति ॥
ननु देवादीनां सुखमेव श्रूयते कुतो दुःखात्मकस्तत्राह । यद्यपीति । तत्रानुभवं प्रमाणयति । मा न भूवमिति । म न भुवं न भवामीति न, अपि तु भूयासं सदा जीवामीत्यर्थः । त्रासे दुःखस्यावश्यकत्वमाह । दुःखं चति । धर्मधर्मिणोरभेदादाह । दुःख मरणामात । कथमिति आक्षेपार्थः । अन्यधर्मा अन्यसम्ब- न्धिनो न भवन्तीत्यर्थः । यथा हि केवलो रक्तः स्फटिक इत्या-