पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

णं दर्शयति आत्मेति । मनीषिण आत्मा इन्द्रियमनोयुक्तं यथा स्यात्तथा भोक्ता भवतीयाहुरित्यन्वय इत्याहुः ।

अत्र विचारयामः-प्रथमव्याख्याने भोक्तोद्देश्य आत्मा विधेयः । द्वितीयव्याख्याने आत्मोद्देश्यो भोक्ता विधेयः । एवं च प्रथमव्याख्याने विधेयस्यात्मेतिपदस्य पश्चान्निर्देशार्हस्य परिदृश्यमानः प्रथमनिर्देशोऽसङ्गतः स्यात् । जाग्रदवस्थस्यैवात्मत्वोपवर्णनेन स्वप्नसुषुप्त्यवस्थापन्नयोस्तैजसप्राज्ञयोरप्यात्मत्वेन नि रूपणीययोरग्रहणापत्तिश्च । न च जाग्रदवस्थापन्न एवात्र निरूपणीयः । स्वप्नाद्यवस्थापन्नस्यानात्मत्वापत्त्याऽवस्थात्रयानुस्यूतत्वनात्मनो बोधकस्याप्रामाण्यापत्तेः ।

द्वितीयव्याख्याने जाग्रदवस्थापन्नस्यैव भोक्तृत्वं स्यान्न तु स्वप्नसुषुप्यवस्थापन्नयोः । तयोरनङ्गीकारे “घ्नन्तीव जिनन्ती वानन्दभुक्" इत्यादेरप्रामाण्यापत्तेः ।

न च भगवच्छङ्कराचार्यमतेऽपि शरीरेन्द्रियमनोभिर्विनाऽपि स्वप्नसुषुप्त्यवस्स्थापन्नयोर्भोक्तृत्वसत्त्वेन त्तेषामपि भोक्तृत्वव्व्याप्याप्यत्वे सति व्यापकत्वरूपभोक्तृत्वप्रयोजकत्वं न सम्भवतीति वाच्यम् । औदासीन्यादिदशायां भोक्तृत्वापत्तिवारणायात्मेत्यादेर्यथासम्भवं कर्माविद्यावासनादेरुपलक्षणपरत्वात् । न च परमतेऽपि यथासम्भवमुपलक्षणपरत्वम् । स्थूलदेहं विना इन्द्रियमनसोः स त्वे भोगानुत्पत्त्या स्थूलदेहस्य प्रधानत्वेन तदघटितस्योपलक्षण- त्वासम्भवात् । न ह्यप्रधानस्योपलक्षणत्वं सचेतनोऽनुमनुते । न चानुषङ्गं विनोपपत्तावनुषङ्गकल्पनादोषः । अनुपपत्तेरुक्तत्वात् । “आत्मानं रथिनम्' इत्युपात्तात्मनः स्वभावतः शुद्धाशुद्धविलक्षणरूपेण विशेषणीयतयाऽनुषङ्गावश्यकत्वाच्च ।

अविवेकस्य बन्धनजनने द्वारजातमुक्तमक्षचरणसूत्रे– “दुःखजन्ममवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद-