पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५५
आत्वख्यात्यसत्ख्यात्योर्निरासः ।


तमित्यादिपुरोवर्त्तिनि बाह्य ज्ञानाकाररजत निषेधोऽपि संगच्छते । त- था च नास्नि प्रकृत्यादि वाह्यं वा वस्तु येन तत्संयोगादौपाधिक- स्तात्विको वा वन्वः स्थादिति सौत्रान्तिका अहुस्तदसत् ।

 ज्ञानं न रजतमित्याद्यवाधितपतीत्या रजरांदर्ज्ञानाकारत्वा- सम्भवात् बाह्यवस्त्वभावे क्वाचित्कनियमानुपपत्तेर्निषेधानुपपत्ते- श्च । न हि निरधिष्ठानको भ्रमो निषेधो वाऽनुभूयते ।

 वैभाषिकास्तु भ्रमेऽसदेव रजतं भासते इत्यसत्ख्यातिरेव भ्रमः । असतो रजतादेः ख्यातिराित तद्विवरणात् । तथा चास- दव बन्धुकृतं प्रकृत्यादि नत्याहुस्तन्न ।

 असतींद्रियसन्निकर्षादिरूपसामग्र्य भवन तद्भानानुपपत्तः । इन्द्रियसन्निकर्षाद्यभ्युपगमे सदस्तोर्वैलक्षण्यानुपपत्तेः ।

 न चासदेव रजतपत्राभादित्यनुभवानुपपत्तिरिति वाच्य- म् । अनुभवस्य सदन्यविषयकत्वात् । अत्राविद्यमानजतावषय- कत्वाद्वा । असतोऽपरोक्षज्ञानासम्भवात् । न हीन्द्रियं विषयसन्निक- र्षं विनाऽपरोक्षं ज्ञानं जनयति । असतो बाधायोगाच्च । न ह्यसतो- त्यन्ताभावोऽस्ति । न च सार्वदेशीयसार्वकालिकात्यन्ताभावप्र- तियोगित्वमसवमतो ऽसतोऽप्यत्यन्ताभावोऽस्त्येवेति वाच्यम् । प्रतियोगत्वाश्रयस्य भावरूपत्वांगीकारे दुव्याद्यन्यतमत्वापत्त्य नाममात्रे विवादापतेः । त्वदुक्ताभावासिद्धेश्च । न हि द्रव्यादेस्ता- दृशोऽभावोऽस्ति । अत्यन्ताभावरूपत्वे च तत्प्रतियोगिनो भावरूप- त्वापत्या तादृशभावस्याप्रसिद्धेः । तादृशभावस्य गगनादेरात्म- नो वाऽङ्गीकारे तदभावत्वायोगात् ।

 न च गगनाद्यभाव एव सः, तस्यासत्त्वानुपपत्तेः । न च गग- नाद्यभावस्य शशशृंगतुल्यवात्दसत्त्वोपपत्तिरिति वाच्यम् । अंसतः प्रमाणाविषयत्वेनाव्यवहार्यत्वापत्तेः । प्रमाणविषयस्यैव व्यवहा- रत्वात् । गगनाभावादेरसत्वे स्वाभावविरहस्वभाववादिनस्ते त-