पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५७
अन्यथाख्यातेर्निरासः ।


वा भ्रमविषयस्तौ चान्यत्र वर्तेते रजतेऽपदन्त्वस्य सत्त्वादिति परास्तम् । किं च किं भ्रमविषयीभूतेदन्त्वाविशिष्टाधर्मी रजतमेव ? त- र्हि शुक्तौ न प्रवर्तेते तस्या भ्रमाविषयत्वान् । शुक्तिरेव चेत्स एव दोषः । विशिष्टज्ञानं च विशेष्यं विशेषणं तदुभयसम्बन्धं च वि- पीकरोतीति कथं नासद्वैशिष्ट्य्भानमिति । तस्मादसदेवाध्यास- विषय इति ।

 "एतेन रजतत्वप्रकारतासामान्यस्य वेति नियमोऽपि परास्तः। असद्वैशिष्टयभानावश्यकत्वात् । प्रमात्मकज्ञानीयरजतत्वप्रकारत्व- स्येत्युक्ते त्वसद्वैशिष्ट्यभाने नियमभंगासंभवेनार्थतस्तन्निरासासम्भ वात् । न चानवस्थादोषभयादसवैशिष्ट्यभानांगीकारेऽपि प्रकार- तया सद्धर्मस्य भानांगीकारे क्षत्यभावः । अत एवान्यथा प्रका- रान्तरेण व्यधिकरणधर्मेण ख्यातिरन्यथाख्यातिरिति तद्विवरण- मुपपद्यते । सम्बन्धल्वेन सम्बन्धस्य भाने इन्द्रियसान्निकर्षानपेक्ष- णाचासद्वैशिष्टयभानं सम्भवति । असतीन्द्रियसान्निकषादिरूपज्ञानमा- ग्र्य सम्भवेनासतः प्रकारतया भानं न सम्भवतीति वाच्यम् । अन्यत्र स्थितरजतत्वादिविशेषणे इन्द्रियसनिकषाभावस्योभयमते- ऽपि तुल्यत्वात् । न च ज्ञानलक्षणासन्निकर्षस्तत्रास्तीति वाच्यम् । ज्ञानलक्षणासन्निकर्षस्य प्राङ् निरस्तत्वात् । न चैवं सोऽयं देव- दत्तः सुरभि चन्दनं घटो नास्तीत्यादिविशिष्टप्रत्यक्षे तत्तादेः क- थे भानामति वाच्यम् । तत्ताद्यंशे स्मृतित्वांगीकारात् । सांकर्यस्य दोषत्वाभावोपपादनेन , स्मृतित्वानुभवत्वयोरेकत्रावच्छेदकभेदेन वृत्तौ विरोधाभावात् । सुरभि चन्दनमिति प्रतीतिस्तु यदि पूर्वगृ- हीतसौरभविशिष्टधर्मिविषया तदा विशेषणांचे स्मृतिरन्यत्र तु अनुमतिरूपैवेति । ।

 यदुकं व्यधिकरणधर्मप्रकारकं शुक्त्यादिविशेष्यावृत्तिधर्मप्रका- रकं ज्ञानमन्यथाख्यातिरिति तदपि न । इदं रजतामित्यनुभवस्य पु-



  ५८