भिचारात्
वेदान्तिनस्तु । अनिर्वचनीयख्यातिरेव भ्रमः । अनिर्वच नयस्य सत्वेनासत्त्वेन सच्चासत्वाभ्यां च निर्वक्तुमशक्यस्य तत्र त्पन्नातिभासिकस्य रजनस्य ख्यातिरिति तद्विवरणात् ।।
न च विमतमित्यादिन्यायविरोध इति वाच्यम् । भूतलस्थ- घटस्य तत्रैव समयान्तरे ऽन्यन्ताभाववद्रजताधिकरणेऽपि का- लभेदेन तदत्यन्ताभाचे बांधकाभावात् ।
न च घटस्थापसारणेन मुद्रादिना नाशेन वोत्तरकालेऽत्यन्ता- भावसम्भवे ऽप्यत्र रजतापमारणाद्यमावेन कालान्तरेऽत्यन्ताभावो न सम्भवतीति वाच्यम् । पूर्वोत्पन्नस्य रजतस्याधिष्ठानसाक्षात्का- रेण निवर्तितस्य कालान्तरेऽत्यन्ताभावमम्भवात् । ज्ञानस्यार्थनिव- र्त्तकत्वं तु मुद्गरादेरिवान्वयव्यतिरेकाभ्यामवाध्यते इति ।
न च प्रसिद्धग्जतसामग्यभावात्कथं तत्र रजतोत्पत्तिरिति वाच्यम् । खण्डघटपाकजघटयोः क्लुप्तदण्डचक्रकुलालादिसामान्य- भावेऽपि कल्पनीयसामग्र्यन्तर वदत्रापि सामग्र्यन्तरकल्पनात् ।। रजतं साक्षात्करोमीत्यनुव्यवसायसम्भवेन भ्रमस्थलेऽपि वि- षयेन्द्रियसन्निकर्षप्राज्यलौकिकविषयताया आवश्यकत्वे विषयो- त्पत्तेरप्यावश्यकत्वात् । रजतादौ लौकिकप्रत्यक्षं विना पुरोवर्ति- रजतायवादौ प्रवृत्त्यनुपपत्तेश्च ।
न च संयोगस्यैव दोषस्यापि प्रत्यक्षतुत्वमिति वाच्यम् । प्रत्यक्षसामान्यप्रयोजकातिरक्तकारणाभावेनाप्रामाण्यस्य परतस्त्वा- नुपपत्तः । सत्यरजतादिस्थले व्यभिचारेण भ्रमं प्रति तस्य हेतु- त्वेऽपि गौरवेण भ्रमात्मकप्रत्यक्षत्वावच्छिन्नं प्रत्यहेतुत्वात् । भ्रमा- त्मकरजतप्रत्यक्षवाद्यपेक्षया प्रतिभासिकरजतत्वस्य कार्यताव- वच्छेदकत्वे लाघवाञ्च ।
यत्तु अद्वैतसिद्धान्तविद्योतने ब्रह्मानन्दसरस्वत्याचार्याः-वि-