वानुपपत्तश्च । तथा च विमताः स्वाप्नपदार्थाः न सम्यञ्चस्तत्क्लृ- ससामग्र्य् जन्यत्वाच्छुक्ति रूप्यवादित्यर्थः
ननु दृष्टान्ते क्लुप्तसामग्न्यपि न सम्भवति । न च शुक्त्यवयव- एवोपादानम् , तदुत्पन्नस्य शुक्तित्वापत्तेः । न च दोषसंस्कारा दिसडकृताधिद्यैव प्रातिभासिकरजतोत्पादिकेति वाच्यम् । तद- नुविद्धतयाऽप्रतीतेः । न च वियदादेरविद्योपादानत्वेऽपि तदनुवि द्धप्रतीत्यभावेन व्यभिचाराचादृशनियमो न सम्भवतीति वाच्य- म् । वियदादेराविद्यकत्वे मानाभावात् ।
न च ‘मायां तु प्रकृतिं विद्या’ दित्यादिश्रुतिरेव मानमिति वाच्यम् । इदमंशाञ्चैलजिनबन्धनाद्यनुपपत्तेश्च(?) वियदाद्यतिरिक्ते तस्या उपादानत्वाकल्पनात् । वियदादिवत्सोपादानत्वे सकर्तक- त्वापत्तेचेति चेन्न
विमतो रूप्याभासः साक्षादविद्योपादानः अन्यानुपादानवे सति सोपादानत्वादाकाशादिवदित्यनुमानेनान्वयव्यतिरेकाभ्यां च शुक्त्याद्यज्ञानस्य कारणत्वावधारणात् । किं च शुक्त्यादिज्ञानम- ज्ञानं नाशयद्रूप्यादिकमपि नाशयति । तच्च तदुपादानत्वं विना न घटते निमित्तनाशस्य कार्यनाशं प्रत्यप्रयोजकत्वात् । उपादेये उपादानानुविनियमाभावात् । कपालं घटो गोमयं वृश्चिकादीत्य: प्रतीतेः । कारणतानवच्छेदकरूपेण नियमाङ्गीकारे तु जडत्वादि- नाऽत्रापि सम्भवात् ।
न चेदमंशानुविद्धतया प्रतीत्यनुपपत्तिरिति वाच्यम् । न्या- यमते अवच्छेदकतया शरीरानुविद्धात्मनिष्ठमुखादिदमंशस्यावच्छे दकताया अज्ञाने निवेशात्तदनुविद्धतया प्रतीत्युपपत्तेः । कार्यका- रणयोरभेदादंगुलिानिर्देशाद्युपपत्तिः । सोपादानत्वेन सक र्तृकत्वापत्ताविष्टपत्तिः । स हि कर्तेति श्रवणात् ।