न च स्वोपादानगोचरज्ञानचिकीषादिमत्त्वरूपकर्तृत्वं न स- म्भवतीति वाच्यम् । कर्तृपदस्य लांगूलं गवादीनुद्वइतीति निमित्त त्वत्प्रातिभासिकभा ननिमित्तमोदत्रासादिहेतुसुकृतदुष्कृतकर्तृत्वरू- पनिामसत्वपरत्वात् । ।
, न च तत्वज्ञानस्य प्रतिवन्धकत्वेन तदभावविषयतयोक्तान्वय- व्यतिरेकावन्यथासिद्धाविति वाच्यम् । तत्वज्ञानस्य दोषादिघटि- तरजत सामग्रीकालीनत्वाभावेनाप्रतिवन्धकत्वान् ।
न च विमतं रजतं सोपादानकं न भवति सद्विलक्षणत्वादसदि- वेति वाच्यम् । घटादौ व्यभिचारात् । न च घटः सन्नेवान्यथा घट- स्य भावकार्यत्वानुपपत्तेरिति वाच्यम् ! बाधायोग्यसतः कार्यत्वा नुपपत्तेः भावकार्यत्वस्यैव विलोपप्रसङ्गात् । वाधायोग्यत्वसवा- तिरिक्ताभावत्वविलक्षणभावत्वेन घटादेः सोपादानत्वे तादृश- स्य शुक्तिरजतेऽप्यङ्गीकारेण सोपादानत्वसम्भवात् ।
यतु । शुक्तिकारूप्यस्योत्पत्तिविनाशांद्युपगमै शुक्तिकायां रजतमुत्पन्नं नष्टमित्यनुभवप्रसङ्ग इति तन्न । भ्रान्तिसमये पूर्वो- त्पन्नाविनष्टशुक्त्यभिन्नतया भ्रान्तरेव प्रतिबन्धकत्वात् विरोधिज्ञान- नुदयेन रजतस्याविनाशाञ्च । बाधसमये अत्यन्ताभावग्रहस्यैव प्र- तिबन्धकत्वात् ।
न च त्रयाणामत्र सवाद्विनगमनाविरह इति वाच्यम् । फ- लबलेनात्यन्ताभावसामग्र्या एव बलवत्त्वस्य विनिगमकत्वात् ।
वस्तुतस्तु "अथ रथान् रथयोगा" नित्यादिश्रुतजन्यज्ञानव तां स्वप्ने इव शुक्तिकायामपि तत्पतीताविष्टापत्तेः । पामराणां त- था प्रतीत्यभावेन शुक्तिरजतादेरुत्पादविनाशाकल्पने स्वप्रेऽपि र- थादेरुत्पत्तिविनाशाकल्पनोपपतेः । गौरोऽहं ब्राह्मणोऽहं देवदत्तो- ऽहमित्याद्यनुभववतां विचारशुन्यानां देहातिरिक्तात्मानुभवाभावा- व देहातिरिक्तात्मासिद्ध्यापत्तेश्च ।
५९