पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


न च प्रतिविम्वमिथ्यात्वे तत्रज्ञानस्योपादानत्वं न सम्भ- वति । सर्वात्मनाऽधिष्ठानज्ञानानन्तरमपि प्रतिबिम्बाध्यासदर्शना- तु । अधिष्ठानविशेषज्ञानस्य प्रतिबिम्बानिवर्त्तकत्वाञ्चति वाच्यम् । अधिष्ठानज्ञानानिवर्त्यब्रह्मविषयकमूलाज्ञानस्यैवोपादानत्वात् ।

 न च प्रतिबिम्बाध्यासस्य मुलाज्ञानकार्यत्वे बिम्बोपाधिस- न्निधिनिवृत्तिसहकृताधिष्ठानज्ञानेनानिवृत्त्यापत्तेः । तदुपादानमूला- ज्ञानस्य ब्रह्मज्ञानातिरिक्त ज्ञानानाश्यत्वादिति वाच्यम् । दर्पणत्वा- दिना ऽधिष्ठानज्ञानस्य भिन्नविषयकतया मुलाज्ञानानिवर्त्तकत्व- वद्दर्पणे मुखं नास्तीति ज्ञानस्य बिम्बापाधिसन्निधिविरहसचिवस्य मूलाज्ञानानिवर्तकत्वेऽपि तदुपादानकप्रतिबिम्बाभावविषयकतया प्रतिबिम्बाध्यासनिवर्तकत्वसम्भवात् ।

 ननु शुक्तिरजतादेरिद प्रतिबिम्बाध्यासस्यापि उपाधिसान्न- धिसचिवाचस्थाज्ञानपरिणामत्वसम्थवे किं मूलज्ञानपरिणामत्व- कल्पनया ? बिम्बोपाधिसन्निधिविरहसचिवस्याधिष्ठानज्ञानस्य त- न्निवर्तकत्वात् । अत एव ज्ञानमज्ञानस्यैव निवर्त्तकमज्ञान कार्यस्य तु ' उपादानाज्ञानानिवृत्त्या निवृत्तिरिति पञ्चपादिकाकारोक्तमपि सङ्गच्छते इति चेन्न ।

 अवस्थाज्ञानस्याऽऽवरणात्मकत्वे सर्वात्मनाऽधिष्ठानज्ञानाभावा- छ । अनावरणात्मकत्वे अधिष्ठानज्ञानस्य विरोधप्रयोजकसमान- विषयकत्वाभावेन तन्निवर्तकत्वानुपपत्तेः ।

 एतेनोपाधिसन्निधावावरणशक्तिर्नाश्यते । उपाधिनत्तिस- चिवनाधिष्ठानज्ञानेन विक्षेपशक्तिमद ज्ञानमिति परास्तम् ।

 ननु विरोधिविषयकज्ञानस्य स्वसमानविषयकाज्ञाननिवर्तकत्वं स्वविरोधिज्ञानप्रतिबन्धकत्वं च दृष्टं न तु स्वविरोधिज्ञानविषयनि- वर्त्तकत्वं तथा चोपाधिसन्निधिनिवृत्तिसाचवेन दर्पणे में मुखं ना- स्तीति ज्ञानेन प्रतिबिम्बज्ञाननिवृत्तावपि प्रतिबिम्बानिवृत्याप-