पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
'४६७
अनिर्वचनीयख्यातेर्निरूपणम् ।


त्तिः । न चेष्टापात्तिः । चैत्रप्रतिविम्वस्य मैत्रण निरीक्ष्यमाणस्य चैत्रमन्निधिनिवृत्तावपि दृश्यत्वापत्तेः । एतेन स्वोपादानाज्ञाननि- वर्तकव्रह्मज्ञाननिवर्त्त्य एवायमध्यासोऽस्तु व्यावहारिकत्वापत्ति- स्त्वविद्यातिरिक्तदोषजन्यत्वेन प्रत्युक्तेनि पराक्तमिति चेन्न । व्रह्मज्ञानवाध्यस्य घटादेर्मुद्गरादिना बाधाभावेऽपि नाशवदत्रापि सूक्ष्मावस्थारूपनाशाङ्गीकारान् । शुक्तिरजताद्यध्यासे त्वन्वयव्य- तिरेकाभ्यां शुक्तित्वप्रकारकावस्थाज्ञानस्यैव हेतुत्वावधारणं मूला- ज्ञानस्य हेतुत्वाकल्पनात् न शुक्तिरजतादेः सर्वपुरुषीयसाधार- ण्यापत्तिः ।

 न च यः श्वेतः शङ्खः स एवायं श्वेन्यव्याप्यशङ्खत्ववांश्चायमि- स्यादिविशेषदर्शनवतः पित्तपोतिसादिदोषनञ्चक्षुष्मतः पीतोऽयमिति शङ्ख इति भ्रमे उक्तरीत्याऽवस्था ज्ञानासम्भवेन मूलज्ञानोपादान- स्वावश्यकत्वे प्रतिबिम्बवत् रक्तवस्त्रेषु निशि चन्द्रिकायां नैल्यव- ञ्च सर्वपुरुषीयसाधारण्यापत्तिरिति वाच्यम् । तद्ग्राहकस्य दोष- वदिन्द्रियस्य सर्वपुरुषसाधारण्याभावात् । प्रतिविम्वादस्थळे दो शस्य सर्वपुरुषसाधारण्येन दृष्टान्तवैषम्यात् । एवं स्वप्नेऽसन्निहित देशादेः भानासम्भवेन देशादेरध्यस्तत्वे तदवच्छिन्ने चैतन्येऽध्या- सासम्भवेन स्वप्नगजादेः शुद्धचैतन्ये एवाध्यासो वाच्यस्तत्र चावस्थाज्ञानासम्भवेन मुलाज्ञानमेव तदुपादानमिति ।

 न च शुद्धचैतन्यस्याऽऽवृतत्वात्कथमधिष्ठानत्वमिति वाक्यम् । चिदानन्दरूपेण मूलाविद्ययाऽऽवृतत्वेऽपि सद्रूपेणानावृतत्वात् । स्वाप्नगजाद्युत्पत्तिकालोत्पन्नान्तःकरणवृत्त्या अविद्यावृत्त्या वा ऽधि ष्ठानचैतन्यस्य प्रमातृत्वापत्या प्रमातृचैतन्यस्येदं पश्याम तिं व्य वहारोपपत्तिरित्याहुः ।

 तन्न । विवेकाग्रहादेव शुक्त्यादिपुरोवर्तिप्रकृत्युपपत्त्या सा- ङ्ख्यैरपि विपर्यासानङ्गीकारात् ।