न चैवमिदं रजतमिति ज्ञानकाले विवेकाग्रहाभावात् सुषुप्त्यादौ विवेकाग्रहसवात्प्रवृत्त्यनुपपत्त्युपपत्ती, इति वाच्यम् । परस्पराग्रही तभेदपुरोवर्त्तिविषयेष्टज्ञानस्यैव विवेकाग्रहपदार्थत्वेन विवक्षित- त्वात् । पुरोवर्तिनि अग्रहीतेष्ठभेदपुरोवर्त्तिविषयेष्टज्ञानत्वेन हेतु त्वे रजतं पुरोवर्तिभिन्नामिति ज्ञानादपि प्रत्यापत्तेः । इष्टे अगृ- हीतपुरोवार्त्तिभेदपुरोवर्त्तिविषयेष्ठज्ञानत्वेन हेतुत्वे च शुक्तौ नेदं रजतमिति ज्ञानादपि प्रवृत्यापत्तेः । उदासीनदशायां प्रवृत्त्यापत्ति- वारणाय पुरोवर्त्तीत्यादि ।
न चैवमपि सत्यरजते नेदं रजतमिति ज्ञानस्य पुरोवर्तिनि इष्ट- भेदविषयकत्वेऽन्यथाख्यात्या ज्ञानद्वयात्मकत्वेनेदन्त्वरूपेण रजते रजतभेदाविषयकत्वात्ततोऽपि प्रवृत्यापत्तिरिति वाच्यम् । स्वा- तन्त्र्येणेष्टविषयकज्ञानस्य विवक्षित्वात् सत्यरजतस्थले तु परस्पर- भेदाभावदेवगृहीतभेदकत्वं ज्ञानस्य सम्भवति । भ्रषस्थले तु इष्ट- भेदसत्त्वेऽपि दोषादग्रहणम् । स्वातन्त्र्यं चाभावविषयतानिरूपि- तविषयतातिरिक्तविषतावक्त्त्वम् । तेनाभावाप्रतियोगित्वेनोपस्थि- तत्वं स्वातन्त्र्यं न वाच्यम् । इदं रजतमिति ज्ञानात्प्रवृत्त्यभावप्र- सङ्गात् । अत्र रजतस्याभावाप्रतियोगित्वेन रूपेणानुप- स्थितत्वात् ।
न चाभावप्रतियोगित्वेनानुपस्थितत्वमन्यावशेषणीभूतत्वेन वा ऽनुपस्थितत्वं वाच्यम् । तदा रजते एव नेदं रजतपति ज्ञानेऽप्यु- क्तरूपसत्वेन प्रवृत्त्यापत्तेः । न हि तन्मते रजतरूपपुरोवर्तिनीष्टभे- दप्रतियोगित्वेन रजतमुपस्यितमन्यथाख्यात्यापत्तेरिति परास्तम् ।
अन्ये तु भेदाग्रहशब्देनेष्टतावच्छेदकरजतत्वादिविरोधिका- लपृष्ठादेः शुक्त्यादवग्रहस्योकत्वात् । तथा च समवायेन पुरोवर्ति- विशेषकेष्टतावच्छदकप्रकारकप्रवृत्तित्वावच्छिन्नं प्रति स्वसमान- कालीनस्वसामानाधिकरण्यसम्बन्धेनोक्तग्रहाभावविशिष्टपूरोवर्ति-