पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६९
आख्यातेर्निरूपणम् ।


विषयेष्टतावच्छेदकप्रकारकज्ञानं समवायेन हेतुरिति । तेन सत्यर- जतस्थले न प्रवृत्त्यनुपपत्तिर्न वा रजते नेदं रजतामिति ज्ञाना- त्प्रवृत्यापत्तिः ।

 न चेदं रङ्गमिति ज्ञानानन्तरं रजतस्मरणे अन्योन्याभावरूप भेदस्याग्रहसत्वात्प्रवृत्यापत्तिरत्रापीष्टतावच्छेदकविरोधिरङ्गत्वोपस्थि- तेः सत्त्वात् । अत एवेदं रजतत्वोभाववादिति ज्ञानेऽपि न प्र- वृत्त्यापत्तिः ।

 ने चेदं रजतमियादिशब्दाभिलापरूपो रजताभेदशुक्तिगो- चरो व्यवहारः स्वविषयाभेदज्ञानसाध्यः व्यवहारत्वात्सम्मतव- दित्यभेदज्ञानसिद्ध्याऽन्यथाख्यात्यापत्तिरिति वाच्यम् । उक्तभेदा: ग्रहसहकृतपुरोवर्त्तिविषयरजतज्ञानाभ्यामेव तदुपपत्तेः । एवमिच्छा- रूपो व्यवहारोऽपि ।

 या तु प्रत्यक्षमणौ ननु पीतः शङ्खो न श्वेत इति भेदज्ञाने- ऽपि श्वेतभेदानुमित्या श्वेतार्थप्रवृत्तेरभेदधीस्तद्धेतुरितिचे”दित्या- शङ्का सा महतां गङ्गेश्वराचार्याणामेव शोभते । यतः परमते तत्र श्वेतभेदग्रहो न सम्प्रतिपन्नः परेणान्यथाख्यातेरनंगीकाराद् भ्रा न्तानामेव तादृसाशङ्कायाः सम्भवात् । रजते इष्टपुरोवर्तिभेदस्या- प्रसिद्ध्या कथं तदभाव इति प्राक् स्वोक्तेरननुसन्धानाच्च ।

 यदपि विपरीतचतुष्के युगपत्प्रवृत्तिनिवृत्यापत्तिः । तथा हि । यत्र रङ्गरजतयोरिमे रजतरङ्गे नेमे रङ्गरजते इत्यत्र रङ्गे रजतमित्ये- कं नेदं रङ्गमित्यपरं रजते इदं रङ्गमित्येकं नेदं रजतमित्यपरं विप- रीतमिति समूहालम्बना धीः चतुर्ष्वंशेषु भ्रमस्तस्थले उभयत्र यु- गपद्रजत्वप्रकारकप्रवृत्तिरङ्गत्वप्रकारकनिवृच्योरापत्तिः । रङ्गेऽन्य- थाख्यात्यापस्याऽनिष्टरङ्गभेदाग्रहरूपनिवृत्तिसामग्री दोषप्रतिब- न्धकवशाञ्च रजतेष्टभेदाग्रहरूपप्रवृत्तिसामग्री । एवं रजते ऽन्य- थाख्यात्यापत्त्या रजतभेदाग्रहरूपप्रवृत्तिसामग्री प्रतिबन्धकदोषव-