पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


शाञ्चानिरङ्गभेदाग्रहरूपनिवृत्ति सामग्री चानयोः सत्त्वादिति ।

 तन्न । विपरीतद्वये इत्येव सामञ्जस्ये अधिकवैयर्थ्यात् । रङ्गर- जतयोरिमै रङ्गरजते इति प्रमात्मकज्ञानस्थलेऽपि रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे च अन्यथाख्यात्यापत्या परस्परभेदाग्रहेण च युगपद्त् प्रवृत्तिनिवृत्युपपादानसम्भवेन विपरीतपदवैयर्थ्याञ्च । रङ्गेऽनिष्टता- वच्छेदकरजतत्वविरोधिकालपृष्ठत्वादिग्रहसत्वेन रजतत्वप्रकारक- प्रकृयसम्भवञ्च ।

 यत्तु रजतरङ्गयोर्युगपदिन्द्रियसन्निकर्षे सति च रङ्गे भेदग्रहस्य प्रतिबन्धकदोषे तयोरिमै रजते इति ज्ञानेन कारणभावसम्भावना पीति प्रयक्षमणिदीधितौ रघुनाथभट्टाचार्यैरुतं विवृतं चैतत्तद्व्या- ख्यातुभिः । यत्र रजते न रजतभेदग्रहो न वा रङ्गे रजतभेदग्रह- स्तत्र सति युगपदिन्द्रिय सन्निकर्षे रजतरङ्गयोरिमें रजते इति रंग- रजतविशेष्यकरजतत्वप्रकारकज्ञाने न किमपि बाधकं ज्ञानलक्षणा- नङ्गीकारेऽपि रजतत्वेन समें संयुक्तभमवायस्थ सत्त्वात् तादृशं च ज्ञानं रङ्गाशे न प्रमात्मकं विशेषणवद्विशेष्यसन्निकर्षरूपमासाम- ग्र्यभावात् । किं त्वन्यथाख्यातिरेवेति भाव इति ।

 तन्न । तत्तत्संयुक्तसमवायसन्निकषस्य तत्तद्विशेष्यय़े तत्तद्विाशि- ष्टज्ञानजनकत्वानियमेन रजतसंयुक्तसमवायसान्निकर्षेण रङ्गविशे- ष्यकरजतत्वप्रकारकज्ञानासम्भवात् । अन्यथा तेन नियामकाभा- चात् घटादिविशेष्यकज्ञानापत्तेः । रजतरजतत्वानर्विकल्पकोत्तरं रजतत्वांशे रजतविशिष्टज्ञानापतेश्च ।

 न च तत्रादृष्टविशेषः प्रतिबन्धकः । प्रतिबध्यस्य रजतत्व- विशेष्यकरजतज्ञानस्याप्रसिद्धेः । प्रसिद्धौ तस्य प्रतिबध्यवासम्भ- वात् । विशेषणज्ञानस्य तत्तद्धर्मिविशेष्यकविशिष्टज्ञानहेतुतया न तेनापि रङ्गविशेष्यकरजतत्वविशिष्टबुद्ध्यापत्तिः ।

 यदपि सामान्यरूपेण व्याप्तिग्रहें बाधानवतारे लाघवज्ञानस-