पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७१
आख्यातेर्निरूपणम् ।


हकारात्पक्षे विशेषरूपेण साध्यं परिच्छिन्नयनुमानमिति वाद्यनु- मतं तथा च बाधानवनारे सति च लघवज्ञाने बाधितमपि सा- ध्यं पक्षे परिच्छिन्दन्केन वारणीयमिति दीधितिकृद्भिरुक्तं वि- वृतं चैतत्तद्व्याख्यातृभिः । महानसीयवह्नित्वादिना व्यापकनाज्ञानं विनाऽपि शुद्धवह्नित्वादिना व्यापकताज्ञानस्य महानसीयवह्नौ लाधवमित्यादिलाघवज्ञानसहकारेण महान्सीयवाह्नभिन्नवह्न्यभा- ववान्पर्वत इत्यादीतरवाधसहकारेण च महानसीयत्वविशिष्टव- ह्नित्वादिरूपेण तादृशवह्नयादिविधेयकानुमितिजनकत्वं तवापि गु- रोरनुमतं तथा च तादृशानुमितेर्भ्रमरूपावशिष्टज्ञानवं सम्भवति तादृशानुमितौ तादृशलाघवज्ञानेतरवधियोहेतुत्वकल्पनाच्च न त च्छून्यकाले तदापत्तिः । न चैवं तादृशलाघवज्ञानादिजन्यानुमि- तौ महानसीयवह्निन्वावच्छिन्ननिरूपितव्याप्त्यवगाहिपरामर्शस्य व्य- भिचार इति वाच्यम् । अन्यलिङ्गकानुमितौ व्यभिचारवारणाय परामर्शजन्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशनस्याऽऽवश्यक- तया व्यभिचाराभावात् । एवं तादृशपरामर्शजन्यानुमितौ लाघवा- दीनां व्यभिचारवारणाय लाघवज्ञानादिजन्यतावच्छेदककोटावपि लाघवज्ञानाव्यवहितोत्तरत्वं निवेशनीयम् । एवमेतत्कालीनश्चैत्र जी- वनमरणान्यतरप्रतियोगी प्रणित्वादयं कालः चैत्रजीवनमरणा- न्यतरवान् कालत्वात् इयादौ मृतचत्रे लाघवसहकाराज्जीवन- प्रतियोगित्वं यत्र भासते तत्राप्यन्यथाख्यातिसिद्धिरिति ।

 तन्न । तदीयपरामर्शग्रन्थे लाघवज्ञानस्य हेतुत्वनिराकरणेन तवाप्यनुमतमिति कथनस्य तन्मताज्ञानप्रयुक्तत्वात् । पर्वतो महान सीयवाह्नभिन्नवह्न्यभाववान् पर्वतो महानसीयवह्निमानित्यादि- कथनं तु त्वदीयग्रन्थव्याख्यातृणमेव शोभते यतः पामराणाम- पि तथा भ्रमाभावात् ।' उक्तस्थले महानसीयवह्नित्वेन शुद्धवह्नि- त्वेन वा महानसीयवह्निभानोपगमे लाघवज्ञानाद्यसत्वे तादृशभा-