पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


नवारणाय तत्र लाघवज्ञानादीनामव्यवहितोत्तरत्वं जन्यतावच्छे. दककोटौ निवेश्य जनकत्वं कल्पनीयम् । एवं लाघवज्ञानादिवि- षयसाध्यानिरिक्तसाध्यभानवारणाय तत्र तेषां प्रतिबन्धकत्वं चे कल्पनीयमिति महद्गौरवामित्यादिज्ञानवतां तथा भ्रमासम्भवा- त् । अत एव नैयायिकधुरन्धरैरुपाध्यायादिभिरपि महानसीय- वह्नित्वादिनोक्तस्थले भानानङ्गीकारात् ।

 न चैवमीश्वरानुमाने ऽनेकश्वरसिद्धिप्रसङ्ग इति वाच्यम् । एकत्वस्यानुमित्यविषयत्वेऽपि स ऐक्षत एको देव इत्यादिश्रुत्यैवै कत्वासद्धेः । अनेकत्व प्रमाणाभावाञ्चा ।

 ननु वाधस्य हेत्वाभासान्तरत्वानुपपत्याऽनुमित व्यापकतान- वच्छेदकरूपस्य लाघवज्ञानादिवसाद्भानमावश्यकं तथा सत्येव तादृशानुमितिप्रतिबन्धकतया बाधस्य हेत्वाभासत्वसिद्धिः ।

 न च लाघवज्ञानाद्यसत्वेऽपि पर्वतो वह्न्याभाववानिति बाध- निश्चये पर्वतो वह्निमानित्यनुदयेन तत्प्रतिबन्धकतया तस्य हेत्वा- भासत्वसिद्धिरिति वाच्यम् । तत्र पर्वते धूमादेर्हेततोर्ज्ञानदशायां व्यभिचारज्ञानस्य सत्त्वेन न तेनैवानुमतिप्रतिबन्धात् तदज्ञानदशा- यां च पक्षधर्मताज्ञानाभावादेवानुमत्यनुदयसम्भवादिति चेन्न ।

 धूमादिहेतोः पक्षवृत्तित्वज्ञानेऽपि वह्न्यभाववद्वृत्तिर्धूम इति विशिष्टज्ञानात्मकव्यभिचारज्ञानस्यैव प्रतिबन्धकतयोक्तस्थले ता- दृशव्याभिचारज्ञानस्यासत्त्वात् । व्यभिचारज्ञानस्य व्याप्तिज्ञानवि- घटनद्वारैवानुमतिप्रतिबन्धकतया यत्र वह्निव्यायधूमवान् पर्षत इति ज्ञानोत्तर पर्वतो वह्न्याभाववानिति बाधनिश्चयस्तत्र व्याप्ति- ज्ञानस्य वृत्ततया तद्विघटनद्वारा व्यभिचारज्ञानस्यानुमितिप्रतिव- न्धकत्वासम्भवेन बाधस्य तत्प्रतिबन्धकतया हेत्वाभासत्वासिंद्धेश्च । बाधस्य हेत्वाभासान्तरत्वाभावेऽप्यस्माकं क्षतिविरहाञ्च ।

 न च पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षतावच्छेदका-