पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५

एतत् पृष्ठम् परिष्कृतम् अस्ति
[३]


लस्वभावादीनां जगदुषदानवपरिहारपूर्वकं साधितम् । प्रांसर्गिकै- तद्विचारादृर्ध्वं च ’ ’तस्मादुच्यते ‘प्रकृतेः सुकुमारतरं न किंचिदस्ति’ इत्यादिरुपसंहारोऽस्या एव कारिकाया दृश्यते । तस्मात् ‘प्रकृतेः सुकुमारतरम्’ इत्यादिकारिकार्थस्यैवोपक्रमात्तस्यैवोपसंहाराञ्च ग- ध्ये एवायं कारिकान्तरव्याख्यानरूपः सन्दर्भ इति न सम्भवति किन्तु प्रासङ्गिक एव स्व्रतंत्रो विचार इत्याभाति । अत एव श्री- मदाद्यशंकराचार्यकृतत्वेन प्रसिद्धयाँ [?] जयमंगलालयायां वृत्तावपि अचिरादेव समुपलब्धायां ‘इत्येष प्रकृतिछुतः" [ का० ५६ ] इति कारिकाया अवतरणे एव ईश्वरकालस्वभावोपादानकत्वं जगत आ- क्षिप्य ’इत्येष प्रकृतिकृतः इत्यनेन निरस्त्रम् । तत्रापि च माठरदृश्यादिसमान एव आक्षेपः परिहारश्च दृश्यते ।

 सप्ततिग्रहणस्य चोपपत्तिरिथमपि सम्भवति-- एकोनसप्तति- कारिकाभिः षष्टितंत्रस्था विषयाः साक्षाप्रदर्शिताः । सप्ततितमका- रिकायां तु षष्टितंत्रकर्तुः पंचशिखाचार्यस्य [] तत्स्थविषयाणां च परमर्षिपूर्वकत्वस्य च प्रतिपादनात् सप्तत्तिमकांरिकऽपि विषयप्र- तिपादिकैव। एकसप्ततितमकारिकायां तु ग्रन्थकर्त्रा स्वनाम्न एव ख्यापनान्न तदन्तर्गत्वम् । अपि च षट्टितंत्रस्थानां कृत्स्नानां षष्टि- संख्याकानां पदार्थानां निरूपणामिकाः कारिकः सप्ततिसंख्यां नात्यक्रामन्नित्येवं ग्रन्थलघुवप्रशंसायामेव ‘सप्तत्यां किल येऽर्था- स्तेऽर्थाः कृत्स्नस्य षष्टितंत्रस्य’ इति व्याक्यस्थकृत्स्नपदषष्टुप- दादिभिर्ग्रन्थकर्त्तुस्तात्पर्यावगमात् कारिकाणां सप्ततिसंख्यापूर- णापूरणविचारो ग्रन्थकर्तुस्तास्पयनवधारणमूल एवेति विभाव- नीयं सूरिभिरित्यलमनेन प्रासंगिकविचारेण ।

 पूवोंक्तेषु व्याख्यानेषु मध्ये सांख्यतवकौमुद्येव मौलीभूता सैव च सांख्यशास्त्रे पाट्यत्वेन विशेषतः प्रचलिता दृश्यते । अद्यावधि न काऽपि सांख्यतत्वकौमुद्यः सम्पूणाँ व्याख्या समुपल



 [१] 'तेन च बहुधा कृतं तक्षम्” [ का ० ७० ] इत्यत्र जयमगकी वृत्तौ षष्टितंत्रस्यैव तंत्रपदेन विवरणात् ।