पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५००

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


ग्या अधिकप्रतिबन्धकत्वकल्पनेन तादृशानुमितिं प्रति तादृशपरा- मर्शस्यातिरिक्तहेतुत्वकल्पनेन तादृशानुमत्साविरइविशिष्टप्रत्यक्क्षे- च्छाविशिष्टपत्यक्षसामग्र्यादीनां प्रतिबन्धकत्वकल्पनेन च महा- गौरवात् ।।

 यदपि रजस्थल इवाम्यत्रापदं रजतत्वेन जानाति प्रत्यया- दन्यथाख्यातिसिद्धिरिति । तन्न । पूर्वोक्तरीच्या कारणबधिन व्यव- सायस्य इदन्त्वावच्छिन्नविशेष्यकरजतत्वप्रकारकत्वाभाववदनु- व्यवसायस्यापि कारणबाधेनेदंविशेष्यकज्ञाने रजतत्वप्र्कारकत्व- विशिष्टाविषयकत्वाभावात् । परन्तु परस्परागृहीतभेदेदविष्यक- त्वरजतत्वप्रकारकत्वविषयकत्वात् ।

 न च लाघनाभेदग्रहस्यैव प्रवृत्तिहेतुत्वं युक्तमिति वाच्यम् । उक्तरीत्या भ्रमस्थले विशिष्टज्ञानासम्भवेन लाघवस्याकिञ्चित्क- रत्वात् । तस्मादख्यातिरेव भ्रम इति नियूंदमित्याहुः ।

 यत्तु अरजतादौ रजतार्थप्रवृत्तिजनकं ज्ञानम् अरजतादौ रजतत्वप्रकारकं न वेति विप्रतिपत्तिः । तत्र नैयायिकाः वेदान्ति- नश्च अरजतादौ रजतार्थिप्रवृत्तिजनकं ज्ञानं अरजतादौ रजत- त्वप्रकारकम् समानविशेष्यकतया अरजतविशेष्यकत्वावच्छिन्न- रजतत्वप्रकारकप्रवृत्तिजनकत्वात् । उभयमतसिद्धेच्छावत् । रज- तप्रमायां वाधवारणायारजतादाविति रङ्गत्वप्रकारकज्ञाने बा- धवारणाय रजतार्थीति । इच्छायामंशतः सिद्धसाधनवारणाय ज्ञानमिति ।

 न च रजतार्थिप्रवृत्तिजनके फलज्ञानें,ऽशतो बाघ इति वा- च्यम् । समानाविशेष्यकत्वमत्यासत्यवच्छिन्नजनकताश्रयस्य प्रवृत्तिजनकपदेन विवक्षितत्वात् । हेतोस्ततो व्यावृत्तये समानविशेष्यकतयेति हेतौ निवेशः । पक्षे विशेषणोपादानं च प- क्षतावच्छेदकावच्छेदेन साध्यसिद्धिमाभप्रेत्य सामानाधिकरण्येन-