पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७५
अन्यथाख्यातेर्निरूपणम् ।


साध्यसिद्धेरुद्देश्यत्वे तु तन्नोपादेयम् । अत्र चोक्तकार्यकारणभा- वभङ्ग एवानुकूलतर्क इति । तम् । विमतं ज्ञानमरजादौ न रजतत्वप्रकारकं तत्प्रकारक- जनक सामग्र्यजन्यत्वात् । घटादिविषयक यथार्थज्ञानवत् । न च ज्ञानलक्षणामन्निकर्षादिघटित सामग्रीजन्यत्वमादाय स्व- रूपासिद्धिरिति वाच्यम् । ज्ञानलक्षणासन्निकर्षस्य पूर्व निर- स्तत्वात् ।

 न चारजतादौ रजतत्वप्रकारकत्वस्य तन्मते इच्छायां प्रसि- द्धतया ज्ञाने तदभावसाधने नैयायिकादीनां सिद्धसाधनमिति वा च्यम् । न्यायादिनये ज्ञानेच्छादिभेदेन प्रकारताविशेष्यतयोर्भेदाभा- वात् । तद्भदे प्रकारिताविशेष्यतात्वयोः सर्वसाधारणानुगतधर्म- योः सत्वेन सामान्याभाचस्य साध्यतया सिद्धसाधनासम्भवात् ।

 न च परस्परविरोधेनैकमप्यनुमानं न साधकं स्यादिति वाच्यम् । इच्छात्वादेरुपाधित्वेन तत्पुरुषीयत्वाद्यनिवेशप्रयुक्तला- घवेन आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावनिर्वाहे उक्तकार्यकार- णभावभंगरूपतकें इष्टापत्त्या तर्काभावेन च पूर्वानुमानस्य न्यून- बलत्वात् । अत्र चौक्तकार्यकारणभाव एवानुकूलतर्क इति ।

 एतेन ज्ञानत्वं शुक्तिविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्व- द्वृत्ति न वेति विप्रतिपत्तिः । विधिप्रसिद्धिारिच्छादौ इच्छादेर्व्य- धिकरणप्रकारकत्वस्य प्रभाकरादिभिरपि स्वीकारात् निषेधस्य च द्रव्यत्वादावेव सुलभत्वात् । अत्र ज्ञानत्वं शुक्तिविशेष्यकत्वा- वच्छिन्नरजतत्वप्रकारकत्ववत्प्रवृत्तेः शुक्तिविशेष्पकत्वावाच्छि- न्नरजतत्वप्रकारकत्ववत्प्रट्टतेः समानविशेष्यकतय। जनकवृत्ति- वादिच्छात्ववदिति परास्तम् । अप्रयोजकत्वात् । इच्छावृत्तित्व- स्योपाधित्वात् । ज्ञानत्वं न ताशवृत्तिज्ञानमात्रवृत्ति धर्मत्वात् । स- र्वांशे रजतप्रमात्ववदित्यनेन सत्प्रतिपक्षितत्वाञ्च ।