यत्तु रुद्रभट्टाचार्यः । ज्ञानीयमरजत विशेष्यकत्वं रजतत्वप्र-
कारकत्वावच्छिन्नं न वेति विप्रतिपत्तिस्तत्र ज्ञानीयमरजतविशे-
व्यकन्वं रजतत्वप्रकारकत्वावच्छिन्नं रजतार्थिप्रवृत्तिजनकज्ञानीय-
विशेष्यकत्वत्वात् यथार्थज्ञानीयरजतावशेष्यकत्ववत् । इच्छीयार-
जतविशेष्यकत्वे सिद्धसाधनवारणाय ज्ञानीयामिति । रजतविशे-
ध्यकत्वे तदेव वारणायारजतेति । सामानाधिकरण्येन तत्सिद्धे
रुद्देश्यत्वात् शुक्तिवादिप्रकारकशुक्त्यादिज्ञानविशेष्यकत्वे नां
शतो बाधः । निषेधे उद्देश्यतावच्छेदकावच्छेदन साध्यसिद्धेरुद्दे-
श्यतया तत्रैव नांशतः सिद्धसाधनं तत्रैव व्यभिचारवारणाय रज-
तार्थीति । तथा च रजतत्वमकारकपृवृत्तिजनकज्ञानीयावशयकत्व-
वादित्यर्थः । तेन रजतार्थिनो रङ्गत्वादिप्रकारकयथार्थ प्रवृत्तिज-
नकज्ञानीयविष्यकत्वे साध्यासत्त्वेन हेतोर्व्यभिचारित्वमिति
परास्तम् । अरजताविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वं ज्ञान-
वृत्ति न चेति वा, विमतं ज्ञानवृत्ति रजतत्वप्रकारकप्रवृत्तिजन-
कज्ञानीयप्रकारकत्वत्वात् यथार्थरजतज्ञानाथरजतत्वप्रकारकत्ववदि-
त्वाहुस्तन्न । अप्रयोजकत्वात् । ज्ञानायमरजतविशयकत्वं न रज-
तत्वप्रकारकत्वावच्छिन्न रजतत्वप्रकारकजनकसामग्र्यजन्यवृत्ति
त्वात् । यथार्थ ज्ञानीयशुक्त्यादिविशेष्यकत्ववत् । ज्ञानीयमरजतविशे-
ष्यकत्वं यदि रजतत्व प्रकारकत्वावच्छिन्नं स्यात्तहिं रजतत्वप्रका-
रकजनकसामग्रीजन्यवृत्ति स्यादिति तर्केण परस्परविरोधादेकमप्य-
नुमानं न साध्यसाधकं स्यादिति परास्तम् । एवमरजतविशेष्यकत्वाव-
च्छिन्नरजतत्वप्रकारकत्वं न ज्ञानवृत्त ज्ञानाजनकसामग्रीजन्यमात्र-
वृत्तित्वादित्यनेन सत्प्रतिपक्षितत्वात् । ज्ञानभिन्नवृत्तित्वस्योपाधि-
त्वाञ्च । न च रजतविशेष्यकं रजतत्वप्रकारकमेकं ज्ञानं नयनसम्प्र
योगजन्यं सम्भवति । अतिविपकुष्ठरजतत्त्रविषये सन्निकर्षास-
म्भवात् । ज्ञानलक्षणायाश्च पूर्वं निरस्तत्वात् । कारणवाधेनानु-
पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५०२
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।