न च ज्ञानवृत्ति रजतत्वप्रकारकत्वं ज्ञानवृत्तिरजतत्वाभाव-
वद्विशेष्यकत्वावच्छिन्नं रजतत्वाभाववद्विशेष्यकत्वावाच्छन्नरजत-
त्वप्रकारकत्ववत्प्रवृत्तेजकज्ञानवृत्तिप्रकारकत्वत्वात् । यत् यद्विशे-
व्यकयत्प्रकारकप्रवृत्तिजनकज्ञानवृत्ति प्रकारकत्वत्ववद्भवति तत्तद्वि-
शेष्यकत्वावच्छिन्नं भवति यथा रजतत्वप्रमावृत्ति रजत्वप्रकारकत्व-
मिति सामान्यव्याप्तिग्रहाद्विशेषसाध्यसिद्धिरिति वाच्यम् । रजत-
त्वाभाववद्विशेष्यकत्वावच्छिन्नाजनक सामग्रीजन्यज्ञानावृत्तित्वात् घ-
टप्रमावृत्तिघटप्रकारकत्ववदित्यनेन सत्प्रतिपक्षितत्वात् । चरमविप्र-
तिपत्तो समानविशेष्यकतयेत्यादिहेतूपन्यासस्य तत्रैव दूषितत्वात् ।
न च शुक्तिः रजतत्वप्रकारकानुभवविशेष्या रजतत्वप्रकार- कप्रकृत्तिविशेष्यत्वादित्यनुमानमन्यथारव्यातौ मानमिति वाच्यम् । इदं रजतं शुक्तिश्च रजतभिन्नति समूहालम्बनमादायार्थान्तरपत्तेः । रजतत्वप्रकारतानिरूपितविशेष्यतयाः साध्यत्वे इच्छीयविशेष्य- तामादाय सिद्धसाधनापत्तेः । ज्ञानीयत्वेन विशेषिते रजतत्वप्रकार तानिरूपितविशेष्यताशालिज्ञानाजनकसामग्रीजन्यज्ञानविशेष्यत्वेन सत्त्प्रतिपक्षितत्वात् । रजतत्वादेरुपाधित्वाञ्च । रजतत्वमरजतवृत्ति- ज्ञानविशेष्यतावच्छेदकं अरजतविशेष्यकप्रवृत्तिहेतुज्ञानप्रकारत्वा- त् शुक्तित्ववत्, अवच्छेदकत्वं प्रकारत्वम् । रजतविशेष्यमात्र निष्ठेदन्त्वतद्रजतत्वादावरजतवृत्तिज्ञानविशेष्यतानवच्छेदके व्यभि- चारवारणाय ज्ञानान्तं हेतुविशेषणम् ।
न चाऽऽहार्यभ्रमेणेदं सर्वं तदिति भ्रमेण वा तेषामप्यारोप्य- तेति वाच्यम् । सर्वेषां तेषां धमाणामारोपे मानाभावात् । भावे वा साध्ये ज्ञानपदस्योद्देश्यसिद्ध्यर्थं प्रवृत्तिहेतु ज्ञानपरत्वादिति वाच्यम् । रजतावृत्तित्वस्योपाधित्वात् ।
न च प्रमेयत्वादावुपाधेः साध्याव्यापकत्वमिति वाच्यम् । र जतमात्रावृत्तित्वस्य विवक्षितत्वात् । न रजतवृत्तित्वस्य वा(?) TA । । ३ ।।