अरजतविशेष्यकज्ञानाजनकसामग्रीजन्य ज्ञानप्रकारत्नेन सन्प्रतिपक्षि-
तत्वाच्च ।
ननु रजतत्वप्रकारकज्ञानविषयता अरजतवृत्तिः अरजतनि- ष्टात्यन्तभावप्रतियोगिनी न भवतीति वा । अरजतविषयप्रवृत्ति-- हेतुज्ञानविषयतात्वात् शुक्तिवृत्तिविषयतावत् । रजनत्वप्रकारक ज्ञानविषयतात्वेन पक्षत्वे सत्यस्थलीयरजतत्वप्रकारकज्ञानविषयता- यामंशतो बाध इति न वाच्यम् । सामानाधिकरण्येन साध्यसिद्धे- रुद्देश्यत्वात् शुक्तिनिष्ठप्रवृत्तिप्रयोजकत्वेन वा ज्ञानविशेषणात् ।
न च तादृशज्ञानविषयतात्वेन रजतस्मरणविषयतायाः पक्ष- त्वे बाधः । शुक्तिगोचररजतत्वप्रकारकज्ञानविषयतायाः पक्षले चा- श्रयासिद्धिरिति वाच्यम् । उभयसम्मतत्वेन शुक्तिनिष्ठप्रवृत्तिप्रयो- जकरजतत्वप्रकारकज्ञानविषयतात्वेन सामान्यरूपेण पक्षत्वात् । शुक्तिज्ञानविषयतया उक्तसाध्यसत्वेनांशतः सिद्धसाधनवारणा- य पक्षे रजतत्वप्रकारकेनि । शुक्तीच्छादिविषयतायांं सिद्धसाधन- वारणाय तत्र ज्ञानेति ।।
न च रजतवृत्ति रजतोभयविषययकसमूहालम्वनविषयतयां व्यभिचार इति वाच्यम् । हेत्वन्तरस्यारजतविशेष्यकप्रवृत्तिमात्रहे- तुपरत्वादिति चैन्न ।
रजतावृत्तित्वस्यात्राप्युपाधित्वात् । न च प्रमेयत्वद्रव्यत्वप्र- कारकप्रमाविशेष्यत्वादाविदं साध्याव्यापकमिति वाच्यम् । साधनावच्छिन्नसाध्यव्यापकत्वे तात्पर्यात् ।
न च प्रमेयमात्रार्थिनामप्रवर्त्तकमेयत्वप्रकारकज्ञानस्य विषय- तायां साध्याव्यापकतेति वाच्यम् । प्रमेयार्थिताया अभावात् । न ह्येतादृशः पुरुषोऽस्ति यः प्रमेयमात्रमर्थयते प्रमेयमात्रस्य सि- द्धत्वादेव ।
थद्वा अरजतांशे प्रवृत्तिहेतुज्ञानविषयतावच्छिन्नारजतवृत्तित्व-