पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


व्यापकत्वेन रजतात्तित्वस्योपाधित्वात् । न ह्यरजतांशे प्रवृत्तिहे- तुज्ञानविषयता अरजतवृत्तिः सती रजतवृत्तिर्भवति विशेष्यभेदेन विषयताभेदात् । तेन तत्रोपाधेः साध्याव्यापकत्वं स्यात् ।

 अन्ये तु रजतमात्रावृत्तित्वमुपाधिरियाहुः ।

 अपरे तु रजतारजतोभयवृत्तिधर्मान्यप्रकाराविषयतात्वाच्छ- न्नसाध्यध्यापकत्वमसेयम् ।

 न च तथाऽपि रजतारजते इति समुहालम्बनज्ञानविषयता- यां व्यभिचार इति वाच्यम् । तत्र विशेष्यभेदेन विषयतामेदादि- तिं भाव इत्याहुः

 ननु इदं रजतज्ञानं शुक्तिविषयकं शुक्तौ प्रवर्तकज्ञानत्वात् । शुक्तिज्ञानवदित्यत्र शुक्तिविशेष्यकप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञा ने पक्षः रजतमात्रावशेष्यकरजतत्वप्रकारकज्ञानेंऽशतो बाधवारणा- य जनकान्तम् । प्राचीननये पक्षतावच्छेदकावच्छेदेन साध्यसि- द्धेरुद्देश्यत्वेऽपि अंशतः सिद्धसाधनस्य दोषतया शुक्तावियं शुक्ति रिति ज्ञानेंशतः सिद्धसाधनवारणाय रजतत्वप्रकारकेति । शुक्तौ रजतत्वप्रकारकेच्छायामंशतः सिद्धसाधनवारणाय ज्ञानमिति । एकमात्रविशेष्यकमिति साध्यार्थः । शुक्तिविशेष्यकप्रवृत्तिजनक- ज्ञानत्वादिति हेत्वर्थः । इदं रजतमित्यादिप्रमायां व्यभिचारवा- रणाय जनकान्तम् । आत्मशरीरादौ व्यभिचारवारणाय ज्ञानप- दमिति चेन्न । शुक्तिगोचरप्रवृत्तिजनके फलज्ञाने शुक्तिकारणप्र- त्यक्षे च व्यभिचारात् । समानविशेष्यकतया प्रवृत्तिजनकत्वविव- क्षणे नायं दोष इति वाच्यम् । आत्मनिष्ठप्रत्यासत्त्यैव कारणत्वस्यै- व लाघवेन पूर्वमुक्तत्वात् । केवलं रजतमिति ज्ञानस्याप्रवर्तकत- या तादृशविशिष्टज्ञानस्योभयमते ऽप्रसिद्धतयो ज्ञानद्वये शुक्तिविशे- ष्यकप्रवृत्तिजनकत्वसत्त्वेऽपि रजतत्वप्रकारकज्ञाने शुक्तिविशेष्य- कप्रवृत्तिजनकत्वस्य पक्षतावच्छेदकस्याभावेनाश्रयासिद्धेः । स्व-