रूपासिद्धश्च ।
न च हेतुतावच्छेदकावच्छिन्नहेत्वभाववत्पक्षतावरुछेदकविशिष्ट पक्ष एवं स्वरूपासिद्धिः स च प्रकुते नास्ति पक्षतावच्छेदकविशि- पक्षाप्रसिद्धेरिति वाच्यम् । काञ्चनमयः पर्वतो वह्निमान् ज- लत्वादित्यादौ जलत्वाभाववत्पर्वतस्य स्वरूपासिद्धित्ववदत्रापि शुक्तिविशेष्यकप्रवृत्तिजनकज्ञानत्वाभाववद्रजतत्वप्रकारकज्ञानस्यैव स्वरूपासिद्धित्वसम्भवात् ।
न च प्रवृत्तिप्रयोजकत्वं प्रवर्तकत्वमत्रोक्तं तेन नासिद्धिरिति वाच्यम् । प्रयोजकत्वे नात्पर्याभावात् । भावे वा फलज्ञानादौ व्यभिचारानिवृत्तेः । शुक्त्यविषयकज्ञानादपि शुक्तिविषयकपवृत्ते- र्देशनेन तत्र व्यभिचाराञ्च । एकमात्रविशेष्यकत्वे सति युक्त्यवृत्ति धर्मप्रकारकत्वविशिष्टज्ञानत्वेन सत्प्रतिपक्षितत्वाञ्च ।
यदपि शुक्तिः रजनज्ञानाविषयताश्रयः रजतार्थिप्रवृत्तिविषय त्वात् रजतवदित्यत्र शुक्तिरजतयोरिमे शुक्तिरजते इति समूडाल- म्बनविषयतामादायर्थान्तरापत्तिवारणाय रजतत्वप्रकारतानिरू- पितज्ञानीयविशेष्यताश्रय इति साध्यम् । रजतत्वप्रकारकप्रवृत्ति- विशेष्यरजतवदिति दृष्टान्तार्थः । तेन तादृशप्रवृत्यविषयरजतस्य साधनविकलत्वेऽपि न क्षतिरिति ।
तन्न । शुक्तिरजतयोः समूहालम्बनप्रवृत्तिविषयतामादाय र- जतभ्रमविषयशुक्तो व्यभिचात् । रजतत्वप्रकारकावृत्तिविशेष्य- त्वस्य हेतुत्वेन व्यभिचारबारणेऽपि रजतत्वस्योपाधित्वात् । रज- तत्वप्रकारतानिरूपितविशेष्यताशालिज्ञानाजनकसामग्रीजन्यज्ञानवि- शेष्यत्वेन सत्प्रतिपक्षितत्वाञ्च ।
यदपि शुक्तिविशेष्यकरजतत्वप्रकारिका प्रवृत्तिः स्वधर्मिधर्मि- करजतत्वप्रकारकज्ञानसाध्या रजत्वप्रकारकप्रवृत्तित्वात् रजत- विशेष्यकरजतत्वप्रकारकप्रकृत्तिवदत्र शुक्तिविशेष्यकशुक्तित्वप्र-
६१