कारकप्रवृत्तेरंशतो बाधवारणाय रजतत्वप्रकारकेति । प्राचीनन-
ये पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यंशतः सिद्ध-
साधनस्य दोषत्वात्सत्यरजतप्रवृत्तावंशतः सिद्धसाधनवारणाय शु-
क्तिविशेष्यकेति पक्षविशेषणमिति । तदपि न । रजतविषयत्वस्यो-
पाधित्वात् । स्वपदार्थाननुगमेन स्वपदस्य प्रकृतपक्षव्यक्तिपरत्वे
साध्यदृष्टान्तयोरप्रसिद्धेः । तादृशज्ञानजनकसामग्र्यप्रसिद्ध्या बाधा-
पत्तेश्च । दृष्टान्तपरत्वे च रजतस्मरणजन्यत्वेन सिद्धसाधनात् । तत्प-
रियागे घर्मिधर्मिकरजतत्वकारिणोभयसिद्धरजतस्मरणेनार्था-
न्तरापतेः ।
यत्तु । प्रसक्षमणौ गङ्गेश्वराचार्याः रजतार्थिताजन्या शुक्तौ प्रवृत्तिः इष्टप्रवृत्तिविषयविशिष्टज्ञानसाध्या प्रवृत्तित्वात् शुक्तौ शुक्त्यर्थिप्रवृत्तिवत् । न चेष्टविषयप्रवृत्तित्वमुपाधिः । साधनविशे- षितत्वादिति ।
तन्न । ज्ञानत्वं व्यधिकरणप्रकारकवृत्ति न वेति विप्रतिपत्तौ उक्तानुमानस्या प्राभाकरत्वेनायुक्तत्वात् ।
न च रजतार्थिताजन्या शुक्तौ प्रवृत्तिरिष्ठाविषयविशिष्टज्ञानसा- ध्या न वेति विशेषविप्रतिपत्तावस्याभिधानान्न दोष इति वाच्यम् । रजतत्वप्रकारिका शुक्तौ प्रवृत्तिरित्येच सामञ्जस्ये रजतेच्छाजन्यापर- पर्यायस्य रजतार्थिताजन्येत्यस्य गौरवेण वैयर्थ्यात् । इष्टे प्रवृत्तिः इष्ट- प्रवृत्तिस्तद्विषयविशिष्टज्ञानसाध्येत्यर्थे पक्षीकृतायां विसंवादिप्रवृत्तावे- तस्य बाधितत्वात् । अत एवेष्टश्चासौ प्रवृत्तिविषयस्तद्गोचरविशि- ज्ञानसाध्येत्यपि न । न चेष्टपदेनेष्टप्रकारकं प्रवृत्तिविषयपदेन प्रवृत्तिविशेष्यकं लक्षणीयं तथा च समवायेनेष्टप्रकारकप्रवृत्तिविष- यविशेष्यकज्ञानसाध्येत्यर्थे नायं दोष इति वाच्यम् । न वादिवा- क्ये लक्षणेत्यभियुक्तोक्तिविरोधापत्तेः । विशिष्टपदवैयर्थ्यापत्तेश्च । ज्ञानपदस्यैव तादृशार्थे तात्पर्य ग्राहकत्वात् । पुरोवर्त्तिविशेष्यका-