व्यापाराभावश्चेति तन्न । शरीरं विना इन्द्रियादेरप्यात्मलाभा द्यभावेनाग्रहणापत्त्तेः । सर्वेषामितरेतराधीनतया विनिगमनावि रहेण सर्वेषां ग्रहणापत्तेश्च ।
यत्तु-मिथ्याज्ञानम् “आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोष- प्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्”(न्या.सू.अ.१ आ.१सू.९) इति । मोक्षोपयोगिद्वादशाविधप्रमेयेषु मुख्ये आत्मनि ‘नास्ति, क्षणिकविज्ञानमात्मा' इत्यादि, अमुख्ये च शरीराद्ये ‘शरीरमात्मा'इत्याद्यनेकविधम् । तद्विरोधि तत्त्वज्ञानं च “इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्ग' ( न्या.सू.अ.१ आ १ म्.१७) इति सूत्रोक्तवेि शेषगुणलिङ्गकशरीररादिभेदविशिष्टात्मविषयकज्ञानम्, तेन मिथ्याज्ञानं निवर्त्यते, मिथ्याज्ञानाभावे “प्रवर्त्तनालक्षणा दोषाः” (न्या- सू.अ.? आ.१ सू.१८) “तत्रैराश्यं रागद्वेमोहार्थान्तरभावात्"; (न्या.सू.अ.४ आ.१ सू,३) इति सूत्रोक्ता रागद्वेषमोहाख्या दोषा निवर्तन्ते । ये तावदनुत्पन्ना रागादयस्ते कारणाभावादेव मा भूवन्, उत्पन्नानां च वैराग्यान्निवृत्तिः । दोषाभावे “प्रवृत्ति- र्वाग्बुद्धिशरीरारम्भः” (न्या.सू.अ.१ आ.१ सू.१७) इति सूत्रोक्ता निवर्तते । सा च जन्महेतुधर्माधर्मरूपा । यौ वाऽनागतौ धर्माधर्मो, तौ कारणाभावान्नोत्पद्येते, वर्तमानौ स्वकार्येण निवर्त्यते । प्रवृत्त्यभावे जन्माभावः, यद् अन्यच्छरीरं तद् न भवति, नतु वर्तमानं न भवतीति । वर्त्तमानशरीरस्य निवृत्तिस्तु तदवस्थिति- हेतुधर्माधर्मसंस्कारानिवृत्या । जन्माभावे दुःखाभावः, निरायत- नस्यानुत्पतेः। यद्यपि दुःखाभावान्नापवर्गः किं तु स एव, तथाऽप्य- भेद एव तत्र पञ्चम्यर्थे इति ।
तत्र विचारयामः-आत्मगुणानां नित्यत्वे सुखादिसत्वेनानि- र्मोक्षप्रसङ्गः, अनित्यत्वे ‘शरीरादिभेिन्नो जन्यज्ञानेच्छादि- मानात्मा'इत्यादिरूपयथार्थज्ञानेन मिथ्याज्ञाननिवृत्तावपि न तान्नि-