स्मरणे फलज्ञाने शुक्तिकरणप्रत्यक्षे च व्यभिचारात् । शुक्तिनि-
ष्ठप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं न शुक्ति विशेष्यकं तदात्ति-
धर्मप्रकारकत्वात् तदवृत्तिरजतत्वप्रकारकत्वाद्वा रजतप्रमादित्य •
नेन सत्प्रातिपक्षितत्वाञ्च ।
न च परस्परविरोधेनैकमप्यनुमानं न साधकं स्यादिति वाच्यम् । रजतत्वप्रकारकज्ञानस्य शुक्तिविशेष्यकत्वावच्छिन्न- ज्ञानजनकसामग्रीशून्यत्वेन शुक्तिविशेष्यकत्वबाधेन पूर्वानुमान- स्य न्यूनबलत्वात् ।
यदधि तथाविधमिदं ज्ञानं वा रजतत्वप्रकारकं रजतेच्छाज- न्यप्रवृत्ति हेतुज्ञानत्वात् सत्यरजतवदिति । एतञ्च व्याख्यातं तद्व्या- ख्यातृभिः । तथा हि तथाविधं-रजतत्वमकारकवृत्तिजनकम् । इदं ज्ञानं-शुक्तिविशेष्यकं ज्ञानम् । अत्र शुक्तौ इयं शुक्तिरिति ज्ञा- नेंऽशतो बाघवारणाय जनकान्तम् । प्राचीननये पक्षतावच्छेदकाव- च्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यंशतः सिद्धसाधनस्य दोषत्वाद्रज- तुमात्रविशेष्यकरजतत्वप्रकारकज्ञानेंऽशतः सिद्धसाधनवारणाय शुक्तिविशेष्यकेति । । शुक्तौ रजतत्वप्रकारकेच्छायामंशतः सि- दसाधनवारणाय ज्ञानमिति । एकमात्र विशेष्यकत्वेन ज्ञानं विशे- षणीयम् तेन शुक्तिरजतोभयसमूहालम्बने नांशतः सिद्धसा- धनमिति ।
तन्न । इष्टविषयकत्वस्योपाधित्वात् । तथाविधमिदं ज्ञानं न रजतत्वप्रकारकत्वावच्छिनं रजतत्वानाश्रयविशेष्यकज्ञानत्वात्स- म्मतवदित्यनेन सत्प्रतिपक्षितत्वाञ्च । अत्रानुकूलतर्कस्तु पूर्वोक्त एवा- नुसन्धेयः । एवं कारणबाधेनान्यान्यप्यन्यथाख्यातौ मानानि नि- रसनयानीति ।
यत्तु विवरणतत्त्वदीपनेऽखण्डानन्दमुनग्नः । विचादाध्यासि- ता प्रवृत्तिः पुरोवर्त्तिरजतज्ञानपूर्विका रजतेच्छाधीनपुरोवर्तिप्रवृ- - -