त्तित्वात् । सम्यग्रजनप्रवृत्तिवदित्याहुस्तन्न । रजनविषयप्रवृत्तित्वस्व- जनकेच्छाप्रकाराश्रयाविशेष्यकत्वादेरूपाधित्वात् । नस्मात् च- तुर्णां ख्यातीनां निरासाल्लिङ्गधर्मानान्मन्यध्यस्यतीति न सम्भ- वत्यतः शब्दार्थत्वाभावाञ्चाह-अथ वेति ।
ननु मुले सर्गस्थ दुःखहेतुत्वा प्रतिपादनात्तस्यापवर्गसाधनो - पयोगिनीं दु.खहेतामहेति आर्यवतरणमनुपपन्नमिति चेन्न । भूले तत्रेति पदेन लोकत्रयाख्यसर्गस्य निमित्तत्वबोधनात् । स- र्गस्य दुःखनिमित्तले स्वमतहानिरत आह । तस्मादिति । यतो दुःखरहितोऽपि दुःखमाप्नोति तस्माद् दुःखं स्वभावेन स्वत एव सर्गो दुःखरूपः विवेकिनामिति शेषः । तेनाविवेकिनां सुखरूपत्वेन भानेऽपि न क्षनिः । यथाऽऽह भगवान्पतञ्जलिः । "परिणामताप- संस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिन” इति । सू- त्रं तु परिणामश्च तापश्च संस्कारश्च एतान्येव दुःखानि तद्योगाद्गौ- णं गुणवृत्तिविरोधाञ्चे स्वाभाविकदुःखत्वम् । परिणामदुःखं च सुखानुभवस्य रागानुविद्धत्वेन सुखानुभवसमये रागावश्यकत्वे दुःखसाधनेषु द्वेषमोहाववश्यं वाच्यौ तयोश्च रागसमयेऽदर्शनेन वि-. च्छिन्नावस्थालक्षणपरिणामो वाच्यतस्य मनःप्रवृत्तिजनकापुण्य रूपकर्मजनकत्वाद् दुःखरूपत्वम् । तापदुःखं च यदा सुखसाधनानि प्रार्थयमानः कायेन वाचा परन्तापयति तस्य तापस्य दुःखहेतुपा- पजनकत्वाद् दुःखत्वम् । संस्कारदुखं च सुखानुभवजन्यसुख- जनककर्माशयवत् दुखानुभवजन्यदुःखजनककर्माशयोऽप्यनादिस्त- स्य दुःखहेतुत्वाद् दुःखत्वम् ।
न च परिणामदु:खनैवोपपत्तावितरयोर्वैयर्थ्यं म् । इतरयो- रभावे परिणामस्य वैयर्थेन दुःखत्वासम्भवात् । एवमितरत्रापि बोध्यम् । गुणानां त्रिगुणात्मकत्वात्तत्कार्यमपि त्रिगुणात्मकम् । शांतं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकम् । एवं सुखाप-