पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


 उक्तस्य सर्गस्य कारणविप्रतिपत्तीर्निराकरोति-


 इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
 प्रतिपुरुषविमोक्षार्थ स्वार्थ इव परार्थ आरम्भः॥ ५६॥


 "इत्यैष” इति । आरभ्यते इति “आरम्भः" सर्गः म- हदादिभूम्यन्तः प्रकृत्यैव कृतो नेश्वरेण, न ब्रह्मोपादानो, नाप्यकारणः । अकारणत्वे ह्यत्यन्ताभावो ऽत्यन्तभावो वा स्यात् । न ब्रह्मोपादानः, चितिशक्तेरपारणामात् । ने- इवराधिष्ठितप्रकृतिकृतो, निर्व्यपारस्याधिष्ठातृत्वास-




भोगरूपप्रत्ययोऽपि तादृश एव । न चैव परस्परविरोधः । रूपा- तिशयानां वृयातिशयानामेव विरोधात् । रूपाण्यष्टौ भावा धर्मा- दयो, वृत्तयः सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश्च तादृशान्येव तद्वि- परीतानि विरुध्यन्ते । सामान्यानि तु असमुदाचरदूपाणि अतिशयैः समुदाचरद्भिः सहाविरोधाद्वर्तन्ते इत्येवं व्याख्ययम् । परिणाम- पदेन जरादिदुःखं तापपदेन मा न भूवं किं तु भूयासमिति मर- णान्मानसदुःख्ने संस्कारपदेन पुनर्जननादिदुःखमिति व्याख्यानं तु भाष्यविरोधाद्धेयम् ॥ ५५ ॥


 प्रकृतेर्महानित्युपसंहारस्य निष्प्रयोजनत्वाशंकां वारयन् उपो- द्धातसंगत्याऽऽयमवतारयति । उक्तस्येत्यादिना । मुले विशे- षभूतं पृथिवी । सर्वं वाक्यं सावधारणमिति न्यायेनाहः। प्रकृत्यै- वेति । प्रकृत्युपादानक एवेत्यर्थः । यथा न परमाणुपादानक- स्तथोक्तं प्राकू । अकारणत्वपक्षे दोषमाह । अत्यन्तभाव ई- त्यादि । ब्रह्मोपादानत्वपक्षे दोषमाह । चितिशक्तेरित्यादि । निष्कलं निष्क्रिय शांतामित्यादिश्रुतेर्निरवयवस्य परिणामायेागात् । विज्ञानमानन्दं ब्रह्मेति श्रुतेः ब्रह्मणो विज्ञानात्मवे विज्ञानानन्दा ।