निवर्तने,-एवं प्रत्येकम्पुरुषान् भोचयितुम्प्रवृत्ता प्रकृतिर्यं
पुरुषम्पोचयति तम्प्रति पुनर्ने प्रवर्तते-तादिदमाह-'स्वार्थ
इव' स्वार्थे यथा तथा परार्थे अराम्भ इत्यर्थः ॥ ५६ ॥
स्यादेतत्-‘स्वार्थ परार्थं वा चेतनः प्रवर्तते । न च प्र- कृतिरचेतनैवं भवितुमर्हति तस्मादस्ति प्रकृतेरधिष्ठाता चेतनः । न च क्षेत्रज्ञाश्चेतना अपि प्रकृतिमाधष्ठातुमर्ह- न्ति,तेषां प्रकृतिस्वरूपानाभिज्ञत्वात् । तस्मादस्ति सर्वा- धदर्शी प्रकृतेराधिष्ठाता, स चेश्वर-इत्यत आह-
वत्सवि वृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥५७॥
"वत्सविवृद्धिनिमित्तम्" इति । दृष्टमचेतनमपि प्र-
योजनम्प्रति प्रवर्त्तमानम्, यथा वत्सविवृद्ध्यर्थं क्षीरमचे-
त्परिहरन् व्याख्यायां दृष्टान्तमाह । यथेति । दार्ष्टान्तिकमाह ।
एवमिति ॥ ५६ ॥
उपोद्धातसंगत्याऽऽर्यमवतारयति । स्यादेतदिति । स- गाद्यकालीना हिताहितप्राप्तिपरिहारानुकूला या चेष्टारूपा प्रवृत्तिः सा हिताहितप्राप्तिपरिहारसाधनज्ञानजन्या तादृशप्रवृत्तित्वादस्म- दीयप्रवृत्तिवदित्याभिप्रायेणाह । न चेत्यादि । एवं भवितुम् । परार्थं प्रवर्त्तितुम् । क्षेत्रज्ञज्ञानमादाय सिद्धसाधनमर्थांतरं च वारय- ति । न चेत्यादिना । तेषामनधिष्ठातृत्वे हेतुमाह । प्रकृतिस्व- रूपानभिज्ञत्वादिति । प्राक् सर्गाज्ज्ञानजनकशरीरेन्द्रियादिसा- मग्र्यभावादेतस्मिन्काले एतावंत्येव परिणमन्ते नैतावन्तीति परिज्ञा- नाभावाच्चेत्यर्थः । क्षीरे व्यभिचारेण समाधते । दृष्टमिति । तथा च विमतं प्रधानं चैतनानाधिष्ठितं प्रवत्तते रथाद्यन्यत्वे सति परार्थत्वात् क्षीरवदित्यर्थः । न हि साध्ये तत्समे वा व्यभिचार