तनं प्रवर्तते । एवम्प्रकृातिरचेतना ऽपि पुरुषविमाक्षाय प्रवर्तिष्यते !
न च क्षीरप्रवृतेरपीश्वराधिष्ठानानिबन्धनत्वेन मा- ध्यत्वान्न साध्यव्यभिचार इति, साम्प्रतम् । प्रेक्षावतः प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् । ते च जगत्सर्ग- द्व्यावर्तमाने प्रेक्षावत्प्रवृत्तिपूर्वकत्वमपि व्यावर्तयनः । न - -
इति न्यायेनाऽऽशंकते। न चेति । ज्ञानपूर्वकप्रवृत्तिरूपप्रेक्षावत्प्रवृत्तेः स्वार्थकारुण्यान्यतरच्याप्यतयाऽन्यतरव्यापकनिवृत्त ज्ञानपूर्वकप्रवृ- त्तित्वाक्रान्तहिताहितप्राप्तिपरिहारानुकूलचेष्टानिवृत्त्या पूर्वानुमाने प- क्षासिद्धि वदन् आद्यदेवादिसगः प्रक्षावत्प्रवृत्तिपूर्वकः सगत्वादि- दानीन्तनसर्गदित्यनुमानं च न स प्रेक्षाचत्पूर्वकः निष्प्रयोज- नत्वे सति कारुण्याजन्यत्वादिति सत्प्रतिपक्षितमित्यभिप्रायेण स- माधत्ते । प्रेक्षावत इत्यादिना ।ते। स्वार्थताकारुण्ये । वृक्षत्वनि- वृत्या शिंशपात्वाभिवेत्यर्थः । सर्गाद्व्यावर्त्तमाने । विषयतासम्व- न्धेन जन्यत्वसम्बन्धेन चाने शेषः । प्रवृत्तिव्यापारस्य स्वार्थतामा- शंक्याह । न हीति । तथा चासृजतोऽपि तस्य नेष्टानुपपत्तिरि- त्यर्थः । तदुक्तं जैमिनीयैः-
‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
न च प्रयोजनं तस्य स्यात्प्रजापतिकर्मणाम् ॥ १ ॥
बहुव्यापारतायाश्च क्लेशो बहुतरो भवेत् ।
सृजेच्च शुभमेवैकमनुकम्पाप्रयोजितः ॥ २ ॥
अथाशुभाद्विना सृष्टिः स्थितिव नोपपद्यते ।
आत्माधीनाभ्युपायं हि भवेत्किं तस्य दुष्करम् ॥ ३ ॥
जगच्चासृजतस्तस्य किं नामेष्टुं न सिद्ध्यति" ।
बहुक्लेशोत्या प्रयोजनव्यावृत्तिः । अशुभं विना सृष्टिर्न सम्भव-
६२