पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
'४९१
जडस्य स्वतन्त्रप्रवृत्त्युपपादनम् ।


रुण्यम्प्राजकामिति नाक्तदोषप्रसङ्गावतारः । पारार्थ्ये- मात्रन्तु प्रयोजकमुपपद्यने । तस्मात् सुष्टूक्तम्-वत्स- बिवृद्धिर्निमित्तम्' इति ॥ ५७ ॥

 त्यादिन्यायाविरोधायाह । पारार्थ्यमात्रमिति । उपसंहरति । तस्मादति

 यत्तु ‘पर्योबुवच्चेत्तत्रापि [ब्र० मू० २-२-३] इत्यस्मिन्सू- त्रे तत्रापि पर्योबुनोश्चेतनाधिष्ठितयारेव प्रवृत्तिारत्यनुमिमीमहे उभयवादिप्रसिद्धेः रथादावचेतन केवले प्रवृत्यदर्शनात् । शास्त्रं च योऽप्सु तिष्ठन्योऽऽन्तरो यमयति । एतस्य वाऽक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दत इत्येवंजातीयकं समस्तस्य लोकस्य परिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति । तस्मा- त्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवादित्यनुपन्यासः चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः । वत्मचोषणेन च पयस आकृष्यमाणत्वात् । न चाम्बुनोऽप्यत्यन्तमनपेक्षा निम्नभूम्याद्यपे- क्षत्वात् स्यन्दनस्येति भाष्यकारैरुक्तम् ।

 तन्न । प्रवृत्तिप्रयोजकस्वार्थकारुण्याभावेनेश्वरस्याधिष्ठातृत्वा- भावस्यानुपदोक्तत्वात् । सृष्टौ स्वतन्त्रा प्रकृतिरेव कत्री तदुत्त- रं प्रवृत्तिरूपक्रियायामीश्वरस्याधिष्ठातृत्वाङ्गीकारे पूर्वपरग्रन्थ- विरोधापत्तेः । चेतनस्य धेन्वादेः बुद्धिविशिष्टस्य शरीरेंद्रियविशि- ष्टस्य वा प्रवर्तकत्वदर्शनेन तद्बुद्ध्यादिप्रवृत्तौ तत्सापेक्षत्वेनात्मा- श्रयाद्यापत्त्या चेतनायाश्च धेन्वा इत्याद्यनुपपत्तेश्च । निम्नभुम्याद्य- पेक्षत्वेऽपि चेतनानपेक्षत्वेनोक्तदोषाभावात् । अत एव पुरुषार्था- दयश्च प्रकृतेर्न प्रेरकाः किन्तु प्रवृत्तिस्वरूपाः प्रवृत्तौ निमित्तानीति न स्वातन्त्र्यक्षतिरिति सांख्यभाष्यमपि सङ्गच्छते । तथा च सुषु- प्ताद् बुद्धेः च्छिक्काजृंभणांदेः वृक्षाश्च पुरुषप्रयत्नं विनोत्थानदर्श नात् घटादेः पुरुषप्रयत्नापेक्षत्वदर्शनाञ्च प्रधाने विचारं विना प्र-