"स्वार्थ इव" इति दृष्टान्तितम् । ( कारिका ५६ ) तद्विभजते ---
औत्सुक्यानिवृत्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ १८ ॥
यत्रसापेक्षत्वनिरपेक्षत्वसंशयेऽपि उक्तरीत्या ईश्वरादिप्रयत्नासं- म्भवदर्भनेन संशयानिवृत्तौ प्रधानातिरिक्तस्थले क्वचित्प्रयत्नसापे- क्षत्वेऽपि दोषासम्भवादियभिप्रायः । न चोक्तशास्त्रविरोधः । उक्त- रीत्या प्रयत्नासंयुक्तत्वरूपनियम्यत्वोधकत्वात् । ‘गुणसाम्यात्त- तस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने', इत्यादिविष्णुपुराणादौ क्षेत्रज्ञाधि- ष्ठितत्वं क्षेत्रज्ञसंयुक्तत्वं बोध्यम् । तदैक्षत बहु स्यामित्यादि वाक्य- जातमपि नादिसर्गपरम् । तस्याबुद्धिपूर्वकस्मरणात् । यथा कूर्मे ।
इत्येषः प्राकृतः सर्गः संक्षेपात्कथितो मया । अबुद्धिपूर्वक- स्त्वेष ब्राह्म सृष्टिं निबोधतेति' ।
अस्य च वाक्यस्यादिपुरुषबुद्धिजन्यत्वेन सङ्कोचे गौरवम् । न केवलं सर्गादावेव पुरुषस्य संयोगमात्र स्रष्ट्टत्वं किन्तु अन्येष्व- पि बुद्धिपूर्वकेषु, परं त्वन्यबुद्धिमान्निध्यात्तद्भेदाग्रहे बुद्धिपूर्वकत्व- व्यपदेश इति । पुरुषस्य सन्निधमात्रेण गौणाधिष्ठातृत्वे मुख्या- धिष्ठातृत्व कस्येति चेच्छ्टणु । अन्तःकरणस्य ।
न चान्तःकरणस्य घटादिवज्जडत्वात्कथमधिष्ठातृत्वमिति वाच्यम् । स्वछस्यान्तःकरणस्य चैतन्यप्रतिबिम्बेन चेतनायमान- तया घटादिविलक्षणत्वात् । संयोगविशेषस्य नियामकत्वपक्षेऽपि न परिणामिता चैतन्यस्य । सामान्यगुणातिरिक्तधर्मोत्पत्तावेव प- रिणामव्यवहार इत्युक्तत्वात् अयं च संयोगविशेषोऽन्तःकरणस्यैव सर्वोदेकरूपात्परिणामाद्भवतीति फलबलात्कल्प्यते पुरुषस्यापरि- णामित्वेन संयोगे तन्निमित्तकविशेषासम्भवाञ्च ॥ ५७ ॥