पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९३
प्रकृतेर्निवृत्तिनिमित्तकथनम् ।


औत्सुक्य- इति । अत्सुक्यभिच्छा, सा खल्वि- ष्यमाणप्राप्तौ निवर्तते । इष्यमाणश्च स्वार्थः, इष्टलक्षण- त्वात् फलस्य । दार्ष्टान्तिके योजयति-पुरुषस्य विमो- क्षार्थम्प्रवर्तते तद्वदन्यक्तम्” इति ॥ ५८ ॥

 ननु भवतु पुरुषार्थः प्रकृतेः प्रवर्तकः, निवृत्तिस्तु कुतस्त्या प्रकृतेः ? इत्यत आह---


 रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
 पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥५९॥

रङ्गस्य” इति, स्थानेन स्थानिनः पारिषदानुपलक्ष-




उपजीवकत्वसङ्गत्याऽऽर्यामवतारयति । स्वार्थं इवेतीति । औत्सुक्यानिवृत्तः सुखदुःखाभावान्यतरत्वाभावात्कथं स्वार्थता ई- त्यत आह । सा खल्वति । तथा चच्छानिवृत्तेः फलनियतत्वा- स्वार्थता सम्भवतीयर्थः । अनिवृत्ताया इच्छाया दुःखदत्वात् । सा च विषयसिद्धावेव निवर्त्तते सैव फलमित्यर्थ इत्यपरे ।

 उत्तरार्द्धमवतारयति । दाष्टान्तिके इतितद्रव्यक्तमिनि
 ननु प्रधानमपि पुरुषार्थो मया कर्त्तव्य इतच्छायां पुरुषवि- मोक्षाय प्रवर्तते तसिद्धिं विना तादृशेच्छाया अनिवृतेरनव्दृत्ताया- श्वानिष्टत्वात्तथा च स्वार्थमुखेनैव परार्थारम्भ इति पर्यवसितं तच्च न सम्भवति । अचेतनाया इच्छासम्भवात् । स्वार्थासम्भवाचेति चेन्न । कूलं पिपतिषतीतिवदुपचारेण तदुपपत्तेः ।

 एतेन प्रधानस्यचितनत्वेन तद्वदव्यक्तमित्यनुपपन्नमिति परास्तम् ।। ५८ ॥

 प्रसङ्गत्याऽऽर्यामवतारयति नान्विति। अनिवृत्तौ चानि- र्मोक्षप्रसङ्ग इयर्थः । रङ्गं नाम नृत्यस्थानम् । अचेतनस्य तस्य कथं नृत्यदर्शनमित्याशङ्ख्याह । स्थानेनेति । पारिषदान् परिषत्-