पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

वृत्या रागनिवृत्तिः सम्भवति, मिथ्याज्ञानस्य तद्वासनाया वा रागाद्यप्रयोजकत्वात्, ज्ञानिनोऽपि रागादिदर्शनाञ्च ।

किञ्च “तत्रैराश्यम्' तेषां दोषाणां त्रयो राशयस्त्रयः पक्षा: अन्ये मायादयोऽन्तर्भवन्ति तदात्मानो भवन्तीति सूत्रार्थः ।

तत्र रागपक्षः-कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भ इति । कामः-रिरंसा। मत्सरः-स्वप्रयोजनप्रतिसंधानं विना पराभि- मतनिवारणेच्छा, एवं परगुणनिराकरणेच्छाऽपि । स्पृहा धर्माविरोधेन प्राप्तीच्छा ! तृष्णा ‘इदं मे न क्षीयताम्'इतीच्छा । उचित व्ययीकरणेनापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव । धर्मविरोधेन परद्रव्येच्छा लोभः । परवश्वनेच्छा माया । कपटेन धर्मिकत्वादिना स्व्सोत्कर्षख्यापनेच्छा दम्भः ।

द्वेषपक्षः-क्रोध ईष्यऽसूया द्रोहो ऽमर्षोंऽवमान इति । क्रोधी नेत्रलौहित्यादिहेतुर्दोषविशेषः । ईष्र्या साधारणे वस्तुनि पर- सत्त्वात्तद्ग्रहीतरि द्वेषः । यथा दायादादीनाम् । असूया परगुणादौ द्वेषः । द्रोहो नाशाय द्वेषः । हिंसा तु द्रोहजन्या । अमर्षः कृतापराधेऽसमर्थस्य द्वेषः । अवमानोऽपकारिण्यकिञ्चित्करस्यात्मनि द्वेष ।

मोहपक्षः-विपर्ययसंशयतर्कमानप्रमादभयशोकाः । विपर्ययो- मिथ्याज्ञानापरपर्यायोऽयथार्थनिश्चयः । संशयोऽनिर्धारणात्मा, स एव विचिकित्सेत्युच्यते । व्याप्यारोपेण व्यापकप्रसञ्जनं तर्कः । आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः । गुणवति निर्गुणत्वधी- रूपस्मयोऽपि मानेऽन्तर्भवति । प्रमादः पूर्वं कर्तव्यतया निश्चितेऽप्य- कर्तव्यताधीः । भयम् अनिष्टहेतूपनिपाते तत्परित्यागानर्हताज्ञानम् । शोक इष्टवियोगेन तल्लाभानर्हताज्ञानामिति-

दोषराशिमध्ये मिथ्याज्ञानरूपमोहस्यापि गणनया मोहनिवृत्त्या मोहो निवर्तते इत्युक्तं स्यात्, तञ्चासङ्गतम् । आत्माश्रयात् । यच्च रागाद्यभावे धर्मोद्यनुपत्तिः, तन्न । रागं विनाऽपि गङ्गा-