पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


यति। ‘आत्मानन्' शब्दाद्याअना पुरुषाद्भदेन च प्रका- श्येत्यर्थः ।। ५९ ॥




समा तत्र स्थितान् । रङ्गस्य दर्शयित्वत्यत्रापि आत्नानमिति से- म्बध्यते । तथा च यथा नर्तकी सुप्रीता हावभावविलासन्ती वि- विधालङ्कारशोभिता नृत्यगीतादिभिरात्मानं सध्यादेर्दशयित्वा दृष्टाऽहमनेनेति कृतप्रयोजना धनप्राप्त्या निवर्तते एवं प्रकृतिरपि बुद्ध्यादिसुखदुःखान्तर्भावेनाऽऽत्मानं पुरुषस्य प्रकाश्य त्वमन्योऽ- हमन्य इति विवेकतो निवर्त्ततेऽसंयुक्ता भवतीत्यर्थः ।

 न च व्यापकयोः कथं संयोगनिवृत्तिरिति वाच्यम् । अवि- वैकनिमित्तकसंयोगविशेषस्य निवृत्तिप्रतियोगित्वेन विवक्षितत्वात् । अत एव मुक्तस्य न पुनर्बन्धापत्तिरिति । यथा चैत्तथेाक्तं पुरस्तात् ।

 नन्वात्मानं प्रकाश्येत्यनुपपन्नं प्रधानस्य नित्यानुमेयत्वादि- ति चेत्तत्राह । शब्दाद्यात्मनेति । शब्दादयो हि विषयाः प्र: धानपरिणामास्तद्दशनमेव प्रधानदर्शनं एवं महत्तत्त्वाहङ्कारयारपि प्रत्यक्षता परमाणोरस्मदाद्यप्रत्यक्षत्वेऽपि यथा तत्कार्यत्रसरेण्यादेः प्रत्यक्षता तद्वत्प्रधानस्याप्रत्यक्षत्वेऽपि तत्कार्यशब्दादेः प्रत्यक्षतेति ने प्रधानस्य स्वत इत्यर्थः । अत एव सत्त्वपुरुषान्यताख्यातेर्मु- क्तिरित्यत्रापि ख्यातिपदेन शब्दादिना प्रत्यक्षं विवक्षितमित्युक्ति- रपि सङ्गच्छते ।

 न च तादृशं ज्ञानं सर्वस्य कुतो न भवतीति शङ्क्यं म् । साध- नाभावात् । साधनानि च भाष्ये प्रसिद्धानि । तथाहिं -कश्चि- द्राजपुत्रो गण्डक्षणजन्मा पुरान्निसारितः शबरेण केनचित्पोषितोऽहं शबर इत्यभिमन्यमान राजात्मजमेनं जीवन्तं ज्ञात्वा कश्चिदभात्यः प्रबोधयति न त्वं शबरो राजपुत्राऽसीति स यथा झटित्येव चाण्डा- लाभिमानं त्यक्त्वा तात्त्विंकं राजभावमेवावलंबते राजाऽहमस्मीति ।