स्यादेतत्-‘प्रवर्तताम्प्रकृतिः पुरुषार्थम् । पुरुषादु- पकृतात्प्रकृतिर्लप्स्यते कञ्चिदुपकारम, आज्ञासम्पादना- राधितांदवाज्ञापयतुर्भुजिष्या । तथा च न परार्थोऽ सया आरम्भः' इत्यत आह-
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकञ्चति ॥६०॥
नाना-” इति । यथा गुणवानप्युकार्यपि भृत्यो |
एवमेवादि पुरुषात्परिपूर्णचिन्मन्त्रेणाभिव्यक्तादुन्पन्नस्त्वं तस्यांश इति
कारुणिकोपदेशात्प्रकृत्याभिमानं त्यैत्वा ब्रह्मपुत्रन्वादहमपि ब्रह्मैव
न तु तद्विलक्षणः संसारीत्येवं स स्वरूपमेवावलम्वते इत्यर्थः ।
स्त्रीशूद्रादिरपि ब्राह्मणस्योपदेशं कृत्वा कुतार्थास्स्युः । यथा अर्जु
नार्थं श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समीपस्थस्यापि पिशा-
चस्य विवेकज्ञानं जातमेवमन्येषामपि भवेदित्यर्थः ।
यदि च सकृदुपदेशाज्ज्ञानं न जायते तदा उपदेशावृत्तिरपि कर्तव्या । छान्दोग्यादौ श्वेतकेत्वादिकं प्रति आरुणिप्रभृतीना- मसकृदुपदेशश्रवणात् । एवं वैराग्यमपि तद्विनाऽपि विक्षेपसम्भवे ज्ञानासम्भवात् ।। ५९ ॥
उपोद्धातसङ्गत्याऽऽर्यामवतारयति । स्यादेतदिति । यदि सदाशब्दमध्याहृत्य प्रकृतिर्यदि उपकृतात्पुरुषाद्यदि कश्चिदुपकारं लप्स्यते तदा प्रवर्त्तताम् भुजिष्यतापन्नस्त्रीवेत्यन्वयः । प्रकृतिर्य- दि पुरुषार्थो स्यात्तदा तदुपकृताऽपि स्यादिति तर्कमुञ्त्का तस्य व्य- तिरेके तात्पर्यमाह । तथा चेत्यादिना । गुणवतामयमेव स्वभावो यदनुपकारिण्युपकारकरणमतः परार्थप्रवृत्तिर्न तदुपकृतव्याप्या व्यभिचारादित्यभिप्रायेण समाधत्ते । यथेत्यादिना । अनुपका-