निर्गुणं इत एखानुपकारिण स्वामिनि निष्फलाधनः,
एवामियम्प्रकृतिस्तपस्विनी गुणवत्युपकारिण्यनुपकारि-
णि पुरुषे व्यर्थपरिश्रमति पुरुषार्थमेव यतते न स्वार्थमि-
ति सिद्धम् ॥ ६० ।।
स्यादेततु-नर्तकी नृत्यम्पारिषद्भयो दर्शयित्वा निवृत्ती ऽपि पुनस्तद्द्रष्ट्टृकौतूहलात प्रवर्तते यथा, तथा प्रकृतिरपि पुरुषायाऽऽत्मानं दशयित्वा निवृत्त ऽपि पुनः प्रवर्त्स्यति '-इत्यत आह-
प्रकृतेः सुकुमारतरन्न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्ट्वा ऽस्मीति पुनर्न दर्शनमुपैति परुषस्य ॥ ६१ ॥
"प्रकृतेः” इति । सुकुमारतरता ऽतिपेशलता, पर-
पुरुषदर्शनासहिष्णुतेति यावत् । असूर्यम्पश्या हि कुल-
रित्वे हेतुमाइ । निर्गुण इति । तत्र च साक्षी चैता केवलो निर्गु- णश्चैयादिश्रुतिरेव मानम् ।
ननु तथाऽपि ममेदं भागादिसाधनं सम्पादनीयमिति प्रतिस- न्धानाभावात् मुढायाः प्रकृतेः क्वचित्प्रवृत्तिरपि न स्याद्विपरीता चे प्रवृत्तिः स्यात् । अहं च भोगादिसाधनम् , सम्पादितं च सम्पा दनं किञ्चिदप्यग्रे नास्तीति परिज्ञानाभावान्निवृत्तिश्च न स्यादिति चेन्न । गर्भदासस्य स्वभावरूपसंस्काराद्यथा नियता प्रवृत्तिः त- था प्रधानस्यापि नियतप्रवृत्युपपत्तेः । अनाद्यदृष्टाकर्षणाञ्च व्यव- स्थोपपत्तेः । व्युत्पादितं चैवमेव भाष्ये ॥ ६० ॥
पूर्वोक्तसङ्गतिं सूचयन निवृत्ताया अपि प्रकृतेः पुनदृष्टान्तेन प्रवृत्याशङ्कयाऽऽर्यमवतारयति । स्यादेतदित्यादि । पेलवता लज्जा । सुकुमारतरपदस्य सुकुमारसापेक्षत्वेन दृष्टान्तत्वेन दर्शयति । असूयामिति । एतेन मुले दृष्टान्ताकथनेन न्यूनतेति परास्तम् ।