पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९७
प्रकृतेः साक्षात्कारानन्तरं पुनरप्रवृत्तिः ।


वधूरतिमन्दाक्ष[१] मन्थरा प्रभादाद्विगलितसिचयाञ्चला चेदालोक्यते परपुरुषेण तदा ऽसौ तधा प्रयतते, अप्रम- तां यथैनां परपुरुपान्तराणि न पुनः पश्यन्ति,-एवम्प्र- कृतिपि कुलवधूतो ऽप्यधिक दृष्टा विवकेन न पुनई- क्ष्यत इत्यर्थः ॥ ६१ ॥

 स्यादेतत्-“पुरुषश्चदगुणो sपरिणामी, कथमस्य मो- क्षः ? मुचेर्बन्धनविश्लेषार्थत्वात, सवासनक्लेशकर्माशा- यानाञ्च बन्धसमाख्यानां पुरुषे ऽपरिणामिन्यसम्भवा- तु । अत एवास्य च पुरुषस्थ न संसारः प्रेत्यभावापर-




असूर्यंपश्या पुरुषान्तराणि न पश्यतात्यर्थः । अतिमन्देति । मन्दाक्षेण मन्थरा मन्दगामिनी प्रसादादनवधानात् विगतसिचया- ञ्चला-विगतः कटिपर्यन्तं पतितः सिचयाञ्चलः कुटिमारभ्य शिरः- पर्यन्तावरकं वस्त्रं यस्याः सा कदाचित रहः सकाशाद्द्वारसमीपङ्ग- ता द्वारावस्थितेन पुरुषेण दृष्टेन्याह । पुरुषेणेति । सर्वकुलवधू- नामेतत्प्रसूतत्वात् तदपेक्षया एतस्या अधिकतरत्वमित्याह । एवमिति

 न च कुलवधूनां चेतनत्वाद् दृष्टान्तासङ्गतिरिति वाच्यम् । श- रीरन्द्रियाभिमानवतां चैतन्य सन्निधानेन चेतनायमानानां बुद्धीना- मेव कुलवधूपदवाच्यत्वात् ।

 वस्तुतस्तु अविवेकनिमित्तकसंयोगविशेषाभावादेव पुनः प्रवृ- तेरसम्भवादित्यर्थः । विवेकख्यातेस्तत्प्रतिबन्धकत्वान्न पुनः प्र- वृत्त्यापत्तिरित्यन्ये ॥ ६१ ॥

 पूर्वोक्तसङ्गतिं सुचयन् कर्तृभोक्तृत्वादिपरिणामरूपवन्धस्या- परिणामिनि पुरुषे ऽसम्भवेन तत्समानाधिकरणस्य मोक्षस्याप्यस-



  १ मदाक्षं ह्रास्त्रपा व्रीडा इत्यमरः।