पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


नामाऽस्ति, निष्क्रियत्वात् । तस्मात् 'पुरुषविमोक्षार्थम्, इति रिक्तं वचः-इतीमां शङ्कामुपसंहारव्याजेनाभ्युप- गच्छन्नपाकरोति ॥


 तस्मान्न बध्यते ऽद्धा, न मुच्यते नापि संसरात कश्चित् ।
 संसरात बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥


 तस्मात्” इति । अद्धा न कश्चित् पुरुषो बध्यते, न कश्चित् संसरति, न कश्चिन्मुच्यते । प्रकृतिरेव तु ना- नाश्रया सती बध्यते संसरति मुच्यते चेति । बन्धमो- क्षसंसाराः पुरुषघूपचर्यन्ते । यथा जयपराजयौ भृत्याग-: तावपि स्वामिनि उपचर्येते,तदाश्रयेण भृत्थानान्तद्भागि- त्वात् तत्फलस्य च शोकलाभादेः स्वामिनि सम्भवात् ।


म्भवात् पुरुषविमोक्षार्थमिति रिक्त बच इत्याशङ्कयाऽऽर्यामव- तारयति । स्यादेतदित्यादिना । विमुक्तश्च विमुच्यते इत्यादि- श्रुतिमाश्रित्याभ्युपगच्छन् समाधत्ते । तस्मान्न बध्यते इति । अहे कर्तेत्याद्यनुभवविरोधं परिहरति । अद्धेति । अद्धा साक्षा- दित्यर्थः । न संसरति । न धर्मादिना परलोकं गच्छति । ना- नाश्रया धर्माधर्माद्यष्टकसम्पन्न । प्रकृतिः बुद्धितत्वं प्रकृतेः साक्षात्संसरणाभावात् ।

 ननु प्रकृतेरेव संसारित्वे कथमहं कतैयादिव्यवहार इत्यत आह । पुरुषेष्विति । तत्र दृष्टान्तमाह । यथेति । उपचारे सम्ब- न्धमाह । तदाश्रयेणेति । तदाश्रयेण जयपराजयाश्रयेण । तद्भा- गित्वात् । धनदानादिना स्वामिसम्बन्धित्वात् । उपचारे हेतुमा- है । शोकेति । अन्यथा स्वामिनि शोकादिकं न स्याज्जयादिरूप- हेत्वाद्यभावात् । पुरुषे धनदानादिसम्बन्धाभावात् सम्बन्धान्तरं