पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९९
प्रकृतेरष्टरूपाणां बन्धमोक्षजनकत्वविभागः ।


भोगापवर्गयोः प्रकृतिगतयोरपि विवकाग्रहात् पुरुषस- म्वन्ध उपपादित इति सर्वं पुष्कलम् ॥३२॥

 नन्ववगतम् 'प्रकृतिगता बन्धसंसारापवर्गाः पुरुचे उपचर्यन्तं इति । किंसाधना. पुनरेतं प्रकृतेरियत आह-


 रूपेंः सप्तमिरेव तु वध्नात्यात्मानमात्मना प्रकृतिः ।।
 सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण ॥ ६३ ।।


 “रूपैः” इति । तत्त्वज्ञानवर्जं बध्नाति धर्मादिभि- म्सप्तभी रूपैर्भावैरिति । “पुरुषार्थम्प्रति" भोगापवर्ग- प्रति “आत्मना ऽऽत्मानम्" एकरूपण तत्वज्ञानेन वि वेकख्यात्या विमोचयति, पुनर्भोगापवर्गों न करोती- त्यर्थः ।। ६३ ।।

दर्शयति । विवेकाग्रहादिनि । विवेकाग्रनिमित्तकः संयोगविशे पोऽकर्त्ता कर्त्तवेत्यत्रोपपादित इत्यर्थः ॥ ६२ ॥

 अवसरसङ्गतिमृचनाय वृत्तं कीर्तयन्नार्यामवतारयति । न- न्विति । सर्वान्कुतो न बध्नात्यत आह । तत्वज्ञानवर्जमिति । धर्मादिभिरिति । अत्रादिपदेन वैराग्यैश्वर्याधर्माज्ञानावैराग्यानै- श्वर्याणि गृह्यन्ते । आत्मना आत्मीयेन बुद्ध्या । पुरुषस्य प्रकृतिकृतो बन्धो न साक्षात् किन्तु बुद्धिद्वारक एवेत्युक्तं पुरस्तात् । एकरू- पेण । अनेकाकाररहितेन । शास्त्रस्य तदेकसाधकत्वान्मुख्यरूपे- णेत्यर्थः । “एके मुख्यान्यकेवलाः” इत्यभिधानात् । सुखादि- निवृत्तावपि पुनरुत्पत्तिसम्भवादाह । पुनरिति ।।

 ननु विमोचनं नाम वास्तवं निगडादिसंयोगध्वंसस्तस्यात्राभा- वात्कथमत्र मुञ्चतिप्रयोग इत्यत आह । पुनरितीत्यन्ये

 चन्द्रकारास्तु ज्ञानेन वैराग्योपरमाद्यभावेऽपि ज्ञानं मोक्षस्य कारणं भवत्येवेति ज्ञापितम् ।