पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५००
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


अवगतर्मादृशं तत्वम्, ततः किमित्यत आह-


 एवन्तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपारिशेषम् ।
 अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥


 एवम्' इति । तत्वेन विषयेण तत्वज्ञानमुपलक्ष- यति ! उक्तरूपप्रकारतत्त्वविषयज्ञानाभ्यासादादरनेरन्त- र्यदीर्घकालसेवितात् सत्वपुरुषान्यतासाक्षात्कारिज्ञानमु- त्पद्यने । यद्विषयश्चाभ्यासस्तद्विषयकमेव साक्षात्कारमु-




 उक्तं च तथा वेदान्तेषु--


 पुणबोधे तदन्यः द्वौ प्रतिबद्धौ यदा तदा ॥
 मोक्षो विनिश्चितः किं तु दृष्टदुःखं न पश्यतीति” ।


 द्वौ वैराग्योपरमौ, दृष्टदुःखं यथोचितव्यवहारक्लेशः । तथा च विपयजिहासारूपवैराग्यस्य विषयदोषदर्शनजन्यस्य पुनर्भोगेष्वदी- नतामात्रं फलं न तु मोक्षोऽपि । एवं धीनिरोधरूपोपरमस्यापि य- मादिसाध्यस्य द्वैतादर्शनमेव फलं न मोक्षः, श्रुतिषु ज्ञानैकलभ्य- त्वकथनादित्यास्तां विस्तर इत्याहुः ॥ ६३ ॥

 ननु सकृच्छ्रवणेनोत्तमाधिकारिणामेकरूपज्ञानेन मोक्षसम्भवे- ऽपि मध्यमाधमानां तथा ऽसम्भवादुपजीवकत्वसङ्गतिं सूचयन्निदि- ध्यासनपरामार्याभवतारयति । अवगनमिति ।

 चन्द्रकारास्तु भवतु ज्ञानादेव कैवल्यं तदेव तु कस्मात्किमा कारं च तत्राह । एवमितत्याहुः ।

 एवं मूल प्राकृतिरित्याद्युक्तप्रकारेण ।

 ननु तत्वाभ्यासो नाम विजातीयप्रत्ययानन्तारतसजातीय प्रत्ययप्रवाहो निदिध्यासनपर्यायः स कथं उक्ततच्चस्य घटत इति चेत् ? तत्वविषयज्ञानस्यैवाभ्यासो न विषयस्येयाह । तवे- नेति । उपपातेमाहे । यद्विषयश्चेतिविशुद्धम् । प्रमात्म-