पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०१
तत्त्वज्ञानस्य स्वरूपप्रदर्शनम् ।


पजनयति,-तत्यविषयश्चाभ्यास इति तत्वसाक्षात्कारं जनयति । अत उक्तम्-“बिशुद्धम्" इति ।

 कुतो विशुद्धमित्यत्त आह-"अविपर्ययात्" इति । संशयविषययौ हि ज्ञानस्याविशुद्धी, तद्रहितं विशुद्ध-




कम् । अविपर्ययात् । विपर्ययभिन्नत्वान् । व्यधिकरणप्रकारा भावादित्यर्थः । एतनद्व्यक्ति । संशयेति ।

 नन्वशुद्धिर्नाम मलादि तस्य संशयादावप्रसक्तिरिति चेन्न । स्वरूपधीप्रतिबन्धकत्वात्संशयानापि मलवन्मलत्वसम्भवात् ।

 न च विपर्ययादित्युक्ते कथं संशयनिरासस्तत्राह । नियते- ति । संशयस्यानियतग्राहकत्वरूपविपर्ययसाधारणधर्मत्वादित्यर्थः।

 चन्द्रकारास्तु-निदिध्यासनसहकृतेन मनसैवाऽऽत्मगोचर- निर्विकल्पकसाक्षात्कारो भवति न श्रुतानुमानाभ्यां तयोस्तत्रासा- मर्थ्यादिति निदिध्यासनाविधानाद्बोधितमित्याहुः ।

 नन्वन्यविषयात्तत्वज्ञानाभ्यासादन्यविषयतत्व साक्षात्कारोत्प- तौं किं प्रमाणमित्याशङ्कायामनुमानमिति वक्तुं व्याप्तिमाह । यद्वि- षयश्चेति । दृष्टान्तस्थ सम्प्रतिपन्नत्वादुपनयनिगमने दर्शयति । तत्वविषयश्चेति

 नन्वभ्यासस्य तत्वावषयत्वाङ्गीकारे उक्तप्रकारतज्ज्ञानाभ्या- सादिति पूर्वोक्तविरोधः । ज्ञानस्य विशुद्धौ व्याप्त्य प्रदर्शनेन "अत उक्त विशुद्ध" मित्युक्तिविरोधथेति चेन्न । यथा मन्त्राभ्यासो मन्त्र- प्रवाहो मन्त्रसमुदायो मन्त्रात्मक एव, षड्जादिस्वरश्रवणाभ्यासः षड्जादिस्वरश्रवणप्रवाहः षड्जादिस्वरसमुदायात्मकः पडूजादिस्व- रात्मक एव तथा तत्त्वज्ञानाभ्यासोऽपि तत्वज्ञानप्रवाहस्तत्वज्ञा- नसमुदायात्मकस्तत्वज्ञानमेवेत्येवं सत्याद्यदोषाभावात् । यथा वह्नि- धुभयोव्याप्तिग्रहात्पक्षे पर्वतादौ जायमाना वह्नयनुमितिर्वस्तुतः प- र्वतीयवह्निविषया तथाऽभ्यस्यमानज्ञानाजायमानः साक्षात्कारो