पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


न्तदिदमुक्तम्-"अविपर्ययात्" इति । नियतमनियत तया गृह्णन् संशयोऽपि विपर्ययः, तेन ‘अविपर्ययात्’ इति संशयविपर्ययाभावो दर्शितः । तत्त्वविषयत्वाच्च संशयविपर्ययाभावः ॥

 स्यादेतत्-‘उत्पद्यतामीदृशाभ्यासात् तत्वज्ञानम्’ तथा ऽप्यनादिना मिथ्याज्ञानसंस्कारेण मिथ्याज्ञानं ज- नयितव्यम् तथा च तन्निबन्धनस्थ संसारस्यानुच्छेदप्र-




विशुद्ध एवोत्पद्यते ऽतश्चरमदोषाभावात् । अत एव विमतस्तत्ववि- पयो ज्ञानाभ्यासः स्वविषयसाक्षात्कारजनकस्तद्विषयाभ्यासत्वा- त्सम्प्रतिपन्नवदित्यपि सङ्गच्छते । अन्यथा तत्वविषय इत्यादेरसं- गत्यापत्तेः ।

 नन्वधारणं ज्ञानं संशयो मिथ्याध्यवसायो विपर्यय इति भिन्नलक्षणलक्षितत्वात्संशयविपर्यययोः कथं विपर्ययेण संशयो गृह्य- ते इत्यत्राह । नियतमिति । संशयस्यानियतग्राहकत्वरूपविपर्य- यसाधारणधर्मवादित्यर्थः । आदराद्यभ्यस्तज्ञानोत्पादितस्वविष- यसाक्षात्कारज्ञानस्वरूपपर्यालोचनयाऽविपर्यग्रादित्यनेन संशय- विपयाँयाभावो दर्शित इदानीं ज्ञेयस्वरूपपर्यालोचनयाऽपि स इ- त्याह । तत्वविषयत्वादिति । तथा च ज्ञानस्य विशुद्धौ व्या- त्यप्रदर्शनेऽपि न क्षतिरित्यर्थः ।

 नन्वेवमपि न तादृशज्ञानान्मोक्षः सम्भवति तस्य क्षणिकत्वेन तदुत्तरमनादिमिथ्याज्ञान संस्कारेण मिथ्याज्ञानस्य सम्भवात् । दृश्य- ते च तादृशज्ञानवतामपि मिथ्य ज्ञानप्रयोज्यो ब्राह्मणोऽहं गौरो ऽहमित्यादिव्यवहार इत्यभिप्रायेण शङ्कते । स्यादेतदिति । अ- नादिविपर्ययवासनाया श्रवणादिजन्यतत्वज्ञानवासनया समुच्छे- देन विपर्ययज्ञानासम्भवेऽपि प्रतिबिम्बादिंभानवत् प्रारब्धप्रयो- ज्यलिङ्गशरीरादिसन्निधानेन बाधितज्ञानसम्भवेन संसारासम्भवा-