पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
मोक्षे गौतमीयानां विप्रतिपात्तिपूर्वको निरासः ।

जलसंयोगादिना धर्मोत्पत्तेः । नित्याकरणे अधर्मोत्पत्तेश्च । एतेन यद्यपवर्गस्तत्त्वज्ञानानन्तरं तर्हि सम्प्रदायोच्छेदो वातपुत्रीयत्ता च शास्त्रस्य स्यात्, तद्वारणायोपात्तधमाधमेप्रचयस्याभुक्तस्य भुज्यमानस्य वा यावत्सत्त्वं तावद्धर्माधर्मानुत्स्पादरूपजीवन्मुक्त्तिः, तदनन्तरमुक्तविदेहकैवल्यरूपा मुक्तिरभ्युपेयते इति-परास्तम् ।

ननु श्रवणमननावधृतात्मतत्त्वस्यात्प्रानं पूर्ववदेव दिङ्मोहादिवत् विपर्ययवासनानुवृत्तेरतो 'निदिध्यासनजन्यसाक्षात्कार एव विपर्य यनिवर्तकः, तद्वासना तद्वासनानिवर्तिका'इत्युपेयते, एवं च ‘क्षीयन्ते कास्यकर्मणि तस्मिन्द्ऱुष्टे परावरं "" ज्ञानाग्न्निः सर्वकर्मणी भस्मसात्कुरुतो़्ऽर्जुन' इत्यादिश्रुतिस्प्रृत्यावराधाय प्रायांश्चत्तनव ज्ञाननादत्तफलानां कर्मणामवश्यनाशे सहसैव विदेहमुक्तिरुपेयते, नतु जीवन्मुक्तिः, उक्तश्रुत्यादिविरोधात्। न च ‘नाभुक्तं क्षीयते कर्म कल्प कोटिशतैरपि’ इति स्मृतिविरोध इति वाच्यम् । ज्ञानाग्निं विना न क्षीयत इत्यत्र तात्पर्यात् । न च सम्प्रदायविच्छेदादिदोषः । अन्विक्षिकीविद्यावधृतात्मतत्त्वस्य सम्प्रदायप्रवत्तकत्वात् । न च प्रायश्चित्तस्याधिकारापत्तिः फलम् । अदृष्टकर्मणामागममन्तरेण फलविशेषकल्पनायां प्रमाणाभावात् । महापातकातिरिक्त स्थलेऽनधिकाराभावाच्च । प्राणान्तिकप्रायश्चित्तेऽधिकारापत्तेर सम्भवाश्च। श्रूयमाणपाध्वंसरूपफलत्यागप्रस्ङ्गाञ्च | न च विमतं कर्म भोगनाश्यं कर्मत्वादिति बाधकबलाच्छ्रूयमाणफलत्यागेऽपि न दोष इति वाच्यम् । अनन्यथासिद्धतया बलवता आगमेनानुमानस्य बाधितत्वेन दुर्बलत्वात् । अन्यथा सुरापेयत्वानुमानमपि दुर्वारं स्यात् । नच । पायश्चित्ताचरणदुःखमेव ब्रह्महत्यादीनां फलम्, तत्फलत्वेनाश्रुतेः । अकरणेऽनिष्टाभावेन प्रायाश्चत्तविधिवैफल्यप्रसङ्गाश्च । ब्रह्महत्यादेघोरनरकफलजनकत्वविधानानुपपत्तेश्चेति चेत्, न । “तस्य तावदेव चिरं यावन्न विमो