पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

'नास्मि' इत्यात्मनि क्रियामात्रन्निषेधति । यथाहुः, कृ- भ्वस्तयः क्रियासमान्यवचनाः, इति ( सिद्धान्तकौमु- दी) । तथा चाध्यवसायाभिमानसङ्कल्पालोचनानि चा- न्तराणि बाह्याश्च सर्वे व्यापारा आत्मनि प्रतिषिद्धानि[१]। बोद्धव्यानि । यतश्चात्मनि व्यापारावेशो नास्त्यतो "ना- हम्" । अहमिति कर्तृपदम्, ‘अहञ्जानाम्यहं जुहोम्यह- न्ददे’ इति सर्वत्र कर्तुः परामर्शत् । निष्क्रियत्वे च स- वत्र कर्तृत्वाभावः । ततः सुष्टूक्तम्--"नाहम्” इति । अत एव “न में" । कर्ता हि स्वामितां लभते, तस्मात्



ध्यते इत्याह । यथाहुरिति । तात्पयार्थमाह । तथा चेति

 पाठक्रमादर्थक्रमो वलीयानिति न्यायमाश्रित्य क्रि- योपरमे कर्तृत्वादिकारकोपरम इत्याई । अत इति । वि बभुत्वेन परिस्पन्दरूपक्रियाभावो ऽप्यात्मनि नैयायिकादिभिः कर्तृत्वाङ्गीका- राद् बाध इति न च वाच्यम् । निरवयवत्वेन परिणामाभावात् कृतिमत्त्वरूपकर्तृत्वस्यासम्भवात् ।

 न च समवायेन कृतिमत्त्वरूपकर्तुत्वं सम्भवतीति वाच्यम् । समवायस्य पूर्वं निरस्तत्वात् । कर्तृत्वघटककृतेर्जन्यत्वेन कर्तृसा- पेक्षतयाऽत्माश्रयाद्यापत्तेश्च, परिणम्यमानत्वरूपकर्तृत्वपक्षे तु नायं दोषः । सत्कार्यवादाश्रयणात् कर्तृत्वाभावेऽपि सङ्गित्वेनान्यक- र्तृकदुःखादिसम्भवेनैतादृशज्ञानस्य दुःखादिविरोधित्वं न स्यादतोऽ- सङ्गित्वमाह । अत एवेतिस्वामितासम्बधित| भाविकी । भवित्री । निष्क्रियो ऽकर्त्ता निःसङ्गो ऽहमिति तत्त्वज्ञानपदेनोचपते इति भावः ।।

 ननु पाकानुकूलक्रियाभावकालेऽपि पाचक इसादिव्यवहा-



  १ प्रतिबद्धानि-इति पुस्तकान्तरे पाठः ।