पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०५
तत्त्वज्ञानस्य स्वरूपप्रदर्शनम् ।


कुतः स्वाभाविकी स्वामित्यर्थः । अथ वा “नास्मि' इति “पुरुषो ऽस्मि, न प्रसवधर्मा” । अप्रसवधर्मित्वा- ।


रान्यथानुपपत्त्या पाचकत्वादिशक्तिसम्भव इत्यपरितपादाह । अथ वति

 अस्मीति पदच्छेदेन व्याख्याय प्रथमैकवचननाशब्दपरत्वेन व्याचष्टे । अथ वेतीत्यन्ये ।

 पुरि शेते इति व्युत्पत्या पुरुषपदेन प्रधानादिभेदासिद्धेराह । न प्रसवधर्मेति

 व्याख्यानान्तरं हि पूर्वापरितोषादधिकार्थलाभाद्वा भवति । त- त्र पूर्वपरितोषाभावादधिकार्थलाभायाह । अथ चेतीति केचित् ।

 अन्ये तु नास्मात्यस्य न कर्तास्मीत्यर्थः । तेन बुद्धिभिन्नो- ऽहमिति प्राप्तं न मे दुःखामिति शेषः । तेन दुःखाद्यारोपाभावो ल- ब्धः । नाहमित्यनेनाहंकारभेदग्रहः । नास्ति परिशेषो यस्मादित्य परिशेष चरममित्याहुः ।

 तन्न । महत्तवाहंकारभेदसिद्धावपि तदितरप्रधानादिभेदासि- द्धेः । चरमज्ञानत्वेन ज्ञानस्य मोक्षहतुत्वे मानाभावाच ।

 ननु बुद्धिभेदज्ञाने कर्तृत्वादिनिवृत्या मोक्षसम्भवे प्रधानादि- भेदासिद्धौ न क्षतिः । न च सत्वपुरुषान्यताख्यातेर्मोक्षहेतुत्वक- थनविरोध इति वाच्यम् । सत्पुरुषाविवेकस्याप्रसिद्ध्या प्रसिद्धौ वा तस्याविवेकादिज्ञानरूपस्य प्रतिबन्धकत्वभावेन सत्त्वपुरुषा- न्यताख्यातेर्मोक्षहेतुत्वकथनस्याज्ञानविजृंभितत्वात् । अत एव ता- दृशख्यातिमतो देहाद्यभिमानसम्भवेऽपि न मोक्षापात्तरिति चेन्न ।

 बुद्धिदेहाद्यविवेकस्य कार्यतथाऽनादिकारणाविवेकस्य मूल- त्वेन कल्पनात् ।

 न चाननुभवात्कल्पना न सम्भवतीति वाच्यम् । बुद्धिरहं ,



 ६४








-