ञ्चाकर्तृत्वमाह--*नाहम्” इति । अकर्तृत्वाञ्च न स्वा-
मितेत्याह--- "न मे” इति ॥
ननु एतावत्सु ज्ञातेष्वपि कश्चित् कदाचिदज्ञातो विषयो ऽस्ति, तदज्ञानञ्जन्तून् बन्धयिष्यति' इत्यत आ- हु-"अपरिशषम" इति । नास्ति किञ्चिदस्मिन् परि- शिष्टं ज्ञातयं यदज्ञानं बन्धयिष्यतीत्यर्थः ॥ ६४ ॥
देहोऽहमित्यननुभवेऽपि कत्तोऽहं गौरोऽहमित्यन्यथानुपपत्त्या बु- द्ध्याद्यविवेकवत्तत्सम्भवात् । अहमज्ञ इत्याद्यखिलाभिमानानां प्रधा: नविषयत्वं विनाऽनुपपत्तेश्च ।
न च तेषां बुद्ध्यादिविषयत्वेनैवोपपत्तिरिति वाच्यम् । मृत्वा पुनः सृष्टौ। स्वर्गी स्याँ मा च नारकीत्याद्यभिमानानां बुद्धिविष- यित्वानुपपत्तेः । अतीतानां बुद्धवाद्यखिलकार्याणां पुनः सृष्ट्याभा- वात् । प्रधानस्य त्विदमेव प्रलयोत्तरं जन्म यद् बुढ्यादिरूपैकपरि- णामत्यागेनापरबुद्ध्यादिरूपतया परिणमनमिति । तथा चाप्र-- सवधर्मत्वादिरूफ्कूटस्यधमैंः प्रधानात्पुरुषे विविक्ते तुल्यन्याया- कारणनाशाञ्च तत्कार्येषु परिणामादिधर्मकेषु बुद्धिदेहादिषु सुव- पदिनाशे तज्जन्यकटकादिष्वभिमानोत्पत्तिवदभिमानोत्पत्तिर्न सं- भवतीति भावः । बन्धकेषु बुद्धिदेहादिष्वविवेकाभावात्सम्भावनया शङ्कत्रे । नन्विति । प्रसवधर्मत्वेन प्रतियोगिनां ज्ञातत्वादज्ञात- स्वादृशविषयो नास्तीत्याभिप्रायेण परिहरति । नास्तीति ।
अन्ये तु नैयायिकाभिप्रेतमनसि अविवेकसम्भवाभिप्रायेण शङ्कते । नन्विति । पुरुषभिन्नस्य कस्यापि : नित्यत्वाभावादित्य- भिप्रायेण परिहरति । अपरिशिषमितीत्याहुः ।
बन्धतन्निवर्तकज्ञानयोर्विशेषस्तु “दृष्टे साऽपार्था चे 'त्यत्रो- क्तोऽनुसन्धेयः ॥ ६४ ॥